________________
इष्टोपदेशः।
४५
बन्धहेतुर्नृणां । तथा स एव जीवो निर्ममस्तद्विपरीतस्तैर्मुच्यत इति यथासंख्येन योजनार्थ क्रमादित्युपात्तं । उक्तं च
“ अकिंचनोहमित्यास्व त्रैलोक्याधिपतिर्भवेः ।
योगिगम्यं तव प्रोक्तं रहस्यं परमात्मनः ॥" अथवा " रागी बघ्नाति कर्माणि वीतरागी विमुंचति ।
जीवो जिनोपदेशोऽयं संक्षेपाद्वन्धमेक्षियोः ॥" यस्मादेवं तस्मात्सर्वप्रयत्नेन व्रताद्यवधानेन मनोवाक्कायप्रणिधानेन वा निर्ममत्वं विचिन्तयेत् मत्तः कायादयोऽभिन्नास्तेभ्योऽहमपि तत्त्वतः नाहमेषां किमप्यस्मि ममाप्यते न किंचन इत्यादि श्रुतज्ञानभावनया मुमुक्षुविशेषेण भावयेत् । उक्तं च
__ " निर्वृत्तिं भावयेष्वावन्निर्वृत्तिं तदभावतः ।
न वृत्तिर्न निवृत्तिश्च तदेव पदमव्ययं ॥" अथाह शिष्यः । कथं नु तदिति निर्ममत्वविचिंतनोपायप्रश्नोऽयं अथ गुरुस्तत्प्रक्रियां मम विज्ञस्य का स्पृहेति यावदुपदिशति
एकोऽहं निर्ममः शुद्धो ज्ञानी योगीन्द्रगोचरः।।
बाह्याः संयोगजा भावा मत्तः सर्वेऽपि सर्वथा ॥ २७ ॥ द्रव्यार्थिकनयादेकः पूर्वापरपर्यायानुस्यूतो निर्ममो ममेदमहमस्येत्यभिनिवेशशून्यः शुद्धः शुद्धनादेशाद्रव्यभावकर्मनिर्मुक्तो ज्ञानी स्वपरप्रकाशनस्वभावो योगींद्रगोचरोऽनंतपर्यायविशिष्टतया केवलिनां शुद्धोपयोगमात्रमयत्वेन श्रुतकेवलिनां च संवेद्योहमात्मास्मि ये तु संयोगाव्यकर्मसंबंधाद्याता मया सह संबंधं प्राप्ता भावा देहादयोस्ते सर्वेऽपि मत्तो मत्सकाशात्सर्वथा सर्वेण द्रव्यादिप्रकारेण बाह्या भिन्नाः संति पुनर्भावक
१ सावधानेन । २ परद्रव्यात् व्याघुटय । ३ निर्ममत्वसाधनं । ४ प्रथमोत्तमदेहसंचारी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org