SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीमत्पूज्यपादस्वामिविरचितः एवं विमर्शति संयोगात्किमिति देहादिभिः संबंधादेहिनां किं फलं. स्यादित्यर्थः । तत्र स्वयमेव समाधत्ते दुःखसंदोहभागित्वं संयोगादिह देहिनाम् । त्यजाम्येनं ततः सर्व मनोवाक्कायकर्मभिः ॥ २८॥ दुःखानां संदोहः समूहस्तद्भागित्वं देहिनामिह संसारे संयोगादेहादिसंबंधाद्भवेत् । यतश्चैवं तत एनं संयोगं सर्व निःशेषं त्यजामि । कैः क्रियमाणं, मनोवाक्कायकर्मभिर्मनोवर्गणाधालम्बनैरात्मप्रदेशपरिस्पंदैस्तैरेव त्यजामि । अयमभिप्रायो मनोवाक्कायान्प्रतिपरिस्पंदमानानात्मप्रदेशान् भा वतो निरुंद्धामि । तद्भेदाभेदाभ्यासमूलत्वात्सुखदुःखैकफलनिर्वृत्तिसंसृत्योस्तथा चोक्तं-- “ स्वबुद्धया यत्तु गृह्णीयात्कायवाक्चेतसा त्रयं । संसारस्तावदेतेषां तदाभ्यासेन निर्वृतिः ॥" पुनः स एवं विमृशति पुद्गलेन किल संयोगस्तदपेक्षामरणादयस्तद्व्यथाः कथं परिहियंत इति । पुद्गलेन देहात्मना मूर्त्तद्रव्येण सह किल आगमे श्रूयमाणो जीवस्य संबन्धोऽस्ति तदपेक्षाश्च पुद्गलसंयोग निमित्त जीवस्य मरणादयो मृत्युरोगादयः संभवंति । तद्यथा मरणादयः संभवति मरणादिसंबंधिन्यो बाधा । कथं, केन भावनाप्रकारेण मया परिह्रियते । तदभिभः कथं निवार्यत इत्यर्थः । स्वयमेव समाधत्ते; न मे मृत्युः कुतो भीतिर्न मे व्याधिः कुतो व्यथा । नाहं बालो न वृद्धोहं न युवैतानि पुद्गले ॥ २९ ॥ न मे एकोऽहमित्यादिना निश्चितात्मस्वरूपस्य मृत्युः प्राणत्यागो नास्ति । चिच्छक्तिलक्षणभावप्राणानां कदाचिदपि त्यागाभावात् यतश्च मे मरणं नास्ति ततः कुतः कस्मात्मरणकारणात्कृष्णसादे तिर्भयं मम १ विचारयति । २ सेवित्वं । ३ देहात्मनः । ४ संयोगापेक्षा । ५ पराभवः । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy