SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ इष्टोपदेशः । स्यान्न कुतश्चिदपि बिमेमीत्यर्थः । तथा व्याधिर्वातादिदोषवैषम्यं मम नास्ति मूर्त्त संबंधित्वाद्वातादीनां । यतश्चैवं ततः कस्मात् ज्वरादि विकारात् मम व्यथा स्यात्तथा बालाद्यवस्थो नाहमस्मि ततः कथं बालाद्यवस्थाप्रभवैः दुःखैरभिभूयेये अहमिति सामर्थ्यादत्र द्रष्टव्यं । तर्हि क मृत्युप्रभृतीनि स्युरित्याह - एतानि मृत्युव्याधिबालादीनि पुद्गले मूर्त्ते देहादावेव संभवन्ति । मूर्त्तिधर्मत्वादमूर्त्ते मयि तेषां नितरामसंभवात् । भूयोऽपि भावक एव स्वयमाशंकते ततान्यासाद्य मुक्तानि पश्चात्तापकारीणि भविष्यतीति यद्युक्तनीत्या भयादयो मे न भवेयुस्तर्हि एतानि देहादिवस्तून्यासाय जन्मप्रभृत्यात्मात्मीयभावेन प्रतिपय मुक्तानीदानीं भेदभावनावष्टंभान्मया त्यक्तानि । चिराभ्यस्ताभेदसंस्कारवशात्पश्वात्तापकराणि किमितीमानि मयात्मीयानि त्यक्तानीत्यनुशयकरीणि मम भविष्यति । अत्र स्वयमेव प्रतिषेधमनुध्यायति तन्नेति यतः भुक्तोज्झिता मुहुमहान्मया सर्वेऽपि पुद्गलाः । उच्छिष्टेष्विव तेष्वद्य मम विज्ञस्य का स्पृहा ॥ ३० ॥ मोहादविद्या वेशवशादनादिकालं कर्मादिभावेनोपादाय सर्वे पुद्गलाः मया संसारिणा जीवेन वारं वारं पूर्वमनुभूताः पश्चाच्च नीरसीकृत्य त्यक्ता यतश्चैवं तत उच्छिष्टेष्विव भोजनगंधमाल्यादिषु स्वयं भुक्त्वा त्यक्तेषु यथा लोकस्य तथा मे संप्रति विज्ञस्य तत्त्वज्ञानपरिणतस्य तेषु फेला कल्पेषु पुगलेषु का स्पृहा ? न कदाचिदपि । वत्स ! त्वया मोक्षार्थिना निर्ममत्वं विचिंतयिव्यं । अत्राह शिष्यः । अथ कथं ते निबध्यंत इति । अथेति प्रश्ने केन प्रकारेण पुद्गला जीवेन नियतमुपादयिंते इत्यर्थः । गुरुराह - ४७ कर्म कर्महिताबन्धि जीवो जीवहितस्पृहः । स्वस्वप्रभावभूयस्त्वे स्वार्थ को वा न वांछति ॥ ३१ ॥ १ दुःखितो भवामि । २ करोति । ३ उच्छिष्टः । ४ निश्चित । ५ बहुतस्त्वे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy