________________
ટ
श्रीमत्पूज्यपादस्वामिविरचितः
" कत्थवि वलिओ जीवो कथवि कम्माइ हुँति बलियाइ । जीवरस य कम्मस्स य पुव्वविरुद्धाइ वइराइ ॥ " इत्यभिधानात्पूर्वोपार्जितं वलवत्कर्म कर्मणः स्वस्यैव हितमाबधाति जीवस्यौदयिकादिभावमुद्भाव्यं नवनवकर्माधायकत्वेन स्वसंतानं पुष्णातीत्यर्थः । तथाचोक्तंजीवकृतं परिणामं निमित्तमात्रं प्रपद्य पुनरन्ये । स्वयमेव परिणमंतेऽत्र पुद्गलाः कर्मभावेन ॥ १ ॥ परिणममानस्य चिदश्चिदात्मकैः स्वयमपि स्वकैर्भावैः । भवति हि निमित्तमात्रं पौगलिकं कर्म तस्यापि ॥ २ ॥
66
तथा जीवः कालादिलब्ध्या बलवानात्मा जीवस्य स्वस्यैव हितमनंतसुखहेतुत्वेनोपकारकं मोक्षमाकांक्षति । अत्र दृष्टांतमाह स्वस्वेत्यादि । निजनिजमाहात्म्यबहुतरत्वे सति स्वार्थ स्वस्योपकारकं वस्तु को न वांछति सर्वोप्यभिलषतीत्यर्थः । ततो विद्धि कर्माविष्टो जीवः कर्म संचिनोतीति । यतश्चैवं ततः
―――――――
परोपकृतिमुत्सृज्य स्वोपकारपरो भव ।
उपकुर्वन्परस्याज्ञो दृश्यमानस्य लोकवत् ॥ ३२ ॥
―――――
परस्य कर्मणो देहादेव अविद्यावशात् क्रियमाणमुपकारं विद्याभ्यासेन त्यक्त्वात्मानुग्रह प्रधानो भव त्वं । किंकुर्वन्सन्, उपकुर्वन् । कस्य परस्य सर्वथा स्वस्माद्वाह्यस्य दृश्यमानस्येंद्रियैरनुभयमानस्य देहादेः । किंविशिष्टो यतस्त्वं अज्ञस्तत्त्वानभिज्ञः किंवल्लोकवत् । यथा लोकः परं परत्वेनाजानंस्तस्योपकुर्वन्नपि तं तत्त्वेन ज्ञात्वा तदुपकारं त्यक्त्वा स्वोपकारपरो भवत्येवं त्वमपि भवेत्यर्थः । अथाह शिष्यः । कथं तयोर्विशेष इति केनोपायेन स्वपरयोर्भेदो विज्ञायेत । तद्धि ज्ञातुश्च किं स्यादित्यर्थः । गुरुराह; - गुरूपदेशादभ्यासात्सवित्तेः स्वपरांतरं ।
जानाति यः स जानाति मोक्षसौख्यं निरंतरम् ॥ ३३ ॥
6
१ प्रकाश्य । २ कर्तृत्वेन । ३ उपकारं कुर्वन् । ४ अभ्यासा' इत्यपि पाठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org