________________
इष्टोपदेशः।
४९
___ यो जानाति । किं तत्स्वपरांतरं आत्मपरयोर्भेदं यः स्वात्मानं परस्माद्भिन्नं पश्यतीत्यर्थः। कुतः संवित्तेर्लक्षणतः स्वलक्षानुभवात् । एषोपि कुतः, अभ्यासात् अभ्यासभावनातः । एषोऽपि गुरूपदेशात् धर्माचार्यस्यात्मनश्च सुदृढस्वपरविवेकज्ञानोत्पादकवाक्यात् से तथान्यापोढस्वात्मानुभविता मोक्षसौख्यं निरंतरमविछिन्नमनुभवति । कर्मविविक्तानुभोव्यविनाभावित्वात्तस्य । तथा चोक्तं तत्त्वानुशासने,__तमेवानुभवंश्चायमैकागयं परमृच्छति ।
तथात्माधीनमानंदमतिवाचामगोचरम् । इत्यादि ॥" अथ शिष्यः पृच्छति-कस्तत्र गुरुरिति तत्र मोक्षसुखानुभवाविषय । गुरुराह;
स्वस्मिन्सदभिलाषित्वादभीष्टज्ञापकत्वतः । स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मनः ॥ ३४ ॥ यः खलु शिष्यः सदा अभीक्षणं कल्याणमभिलषति तेन जिज्ञास्य तदुपायं तं ज्ञापयति तत्र चाप्रवर्त्तमानं तं प्रवर्त्तयति स किल गुरुः प्रसिद्धः। एवं च सत्यात्मनः आत्मैव गुरुः स्यात् । कुत इत्याह-स्वयमात्मना स्वस्मिन्मोक्षसुखाभिलाषिण्यात्मनि सत् प्रशस्तं मोक्षसुखमभीक्ष्णमभिलषति । मोक्षसुखं में संपद्यतामित्याकांक्षतीत्येवं भमात् । तथाभीष्टस्यात्मना जिज्ञास्यमानस्य मोक्षसुखोपायस्यात्मविषये ज्ञापकत्वादेषे मोक्षसुखोपायो मया सेव्य इति बोधकत्वात् । तथाहि ते मोक्षसुखोपाये स्वयं स्वस्य प्रयोक्तत्वात् । अस्मिन्सुदुर्लभे मोक्षसुखोपाये दुरात्मन्नात्मन्स्वयमद्यापि न प्रवृत्तः इति । तत्रावर्त्तमानस्यात्मनः प्रवर्तकत्वात् । अथ शिष्यः साक्षेपमाह। एवं नान्योपास्तिः प्राप्नोतीति भगवन्नुक्तनीत्या परस्परगुरुत्वे निश्चिते सति
१ पुरुष. । २ परस्माद्भिन । ३ ज्ञातुमिष्टं । ४ अनुभवितुं बांछितस्य । ५ आत्मानं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org