________________
श्रीमत्पूज्यपादस्वामिविरचितः
धर्माचार्यादिसेवनं प्राप्नोति मुमुक्षं । मुमुक्षणा धर्माचार्यादिः सेव्यो न भवतीति भावः । न चैवमेतदिति वाच्यमपसिद्धांत प्रसंगादिति वदतं प्रत्याह;
नाज्ञो विज्ञत्वमायाति विज्ञो नाज्ञत्वमृच्छति । निमित्तमात्रमन्यस्तु गतेर्धर्मास्तिकायवत् ॥ ३५ ॥ भद्र ! अज्ञस्तत्त्वज्ञानोत्पत्त्ययोग्योऽभव्यादिर्विज्ञत्त्वं तत्वज्ञत्वं धर्माचापदेश सहस्रेणापि न गच्छति । तथाचोक्तं
" स्वाभाविकं हि निष्पत्तौ क्रियागुणमपेक्ष्यते । न व्यापारशतेनापि शुकवत्पाठ्यते वकः || ” तथा विज्ञस्तत्त्वज्ञानपरिणतो अज्ञत्वं तत्त्वज्ञानात्परिभ्रंशमपायसहस्रेणापि न गच्छति । तथाचोक्तं
" वत्रे पतत्यपि भयद्रुतविश्वलोके
मुक्ताध्वनि प्रशमिनो न चलंति योगात् । बोधप्रदीप हत मोहमहांधकाराः
सम्यग्दृशः किमुत शेषपरीषहेषु ॥
नन्वेवं बाह्यनिमित्तक्षेपः प्राप्नोतीत्यत्राह । अन्यः पुनर्गुरुविपक्षादिः प्रकृतार्थसमुत्पादभ्रंशयोर्निमित्तमात्रं स्यात्तत्र योग्यताया एवं साक्षात्साधकत्वात् । कस्याः को यथेत्यत्राह गतेरित्यादि । अयमर्थो यथा युगपद्धाविगतिपरिणामोन्मुखानां भावानां स्वकीया गतिशक्तिरेव गतेः साक्षाज्जनिका तद्वैकल्ये तस्याः केनापि कर्त्तुमशक्यत्वात् । धर्मास्तिकायस्तु गत्युपग्राहकद्रव्य विशेषस्तस्याः सहकारिकारणमात्रं स्यादेवं प्रकृतेऽपि अतो व्यवहारादेव गुर्वादेः शुश्रूषा प्रतिपत्तव्या । अथाह शिष्यः । अभ्यासः कथमिति । अभ्यासप्रयोगोपायप्रश्नोऽयं । अभ्यासः कथ्यत इति क्वचि
१ प्रारब्धवस्तु २ सामर्थ्यस्य ।
Jain Education International
27
For Private & Personal Use Only
www.jainelibrary.org