________________
इष्टोपदेशः।
५१
त्याठः । तत्राभ्यासः स्यात् भूयो भूयः प्रवृत्तिलक्षणत्वेन सुप्रसिद्धत्वात्तस्य स्थाननियमादिरूपेणोपदेशः क्रियत इत्यर्थः । एवं संवित्तिरुच्यत इत्युत्तरपातनिकाया अपि व्याख्यानमेतत्याठापेक्षया द्रष्टव्यं । तथा च गुरोरवैते वाक्ये व्याख्येये । शिष्यबोधार्थ गुरुराह;
अभवच्चित्तविक्षेप एकांते तत्त्वसंस्थितिः ।
अभ्यस्येदभियोगेन योगी तत्त्वं निजात्मनः ॥ ३६ ॥ अभ्यस्येद्भावयेत्कोसौ, योगी संयमी। किं, तत्त्वं याथात्म्यं । कस्य, निजात्मनः । केन, अभियोगेन आलस्यनिद्रादिनिरासेन । क, एकांते योग्यशून्यगृहादौ । किंविशिष्टः सन्, अभवन्नजायमानश्चित्तस्य मनसो विक्षेपो रागादिसंक्षोभो यस्य सोऽयमित्थंभूतः सन् । किंभूतो भूत्वा, तथाभूत इत्याह । तत्त्वसंस्थितस्तत्त्वे हेये उपादेये च गुरूपदेशान्निश्चलधी यदि वा तत्त्वेन साध्ये वस्तुनि सम्यक् स्थितो यथोक्तकायोत्सर्गादिना व्यवस्थितः । अथाह शिष्यः संवित्तिरिति अभ्यासः कथमित्यनुवयते नायमर्थः संयम्यते । भगवन्नुक्तलक्षणा संवित्तिः प्रवर्तमाना केनोपायेन योगिनो विज्ञायते कथं च प्रतिक्षणं प्रकर्षमापद्यते । अत्राचार्यो वक्ति । उच्यत इति । धीमन्नाकर्णय वर्ण्यते तल्लिंगं तावन्मयेत्यर्थः ।
यथा यथा समायाति संवित्तौ तत्त्वमुत्तमम् ।
तथा तथा न रोचंते विषयाः सुलभा अपि ॥ ३७ ॥ येन येन प्रकारेण संवित्तौ विशुद्धात्मस्वरूपं सांमुख्येनागच्छति योगिनः तथा तथानायासलभ्या अपि रम्येंद्रियार्था भोग्यबुद्धिं नोत्पादयति । महासुखलब्धावल्पसुखकारणानां लोकेऽप्यनादरणीयत्वदर्शनात् । तथा चोक्तं
" शमसुखशीलितमनसामशनमपि द्वेषमेति किमु कामाः । स्थलमपि दहति झषाणां किमंग पुनरंगमंगाराः ॥ १॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org