________________
श्रीमत्पूज्यपादस्वामिविरचितः
अतो विषयारुचिरेव योगिनः स्वात्मसंवित्तेर्गमिको तदभावे तदभावात् प्रकृष्यमाणायां च विषयारुचौ स्वात्मसंवित्तिः प्रकृष्यते । तद्यथा---
५२
यथा यथा न रोचंते विषयाः सुलभा अपि । तथा तथा समायाति संवित्तौ तत्त्वमुत्तमम् ॥ ३८ ॥ अत्रापि पूर्ववद्वयाख्यानं । तथा चोक्तम्“ विरम किमपरेणाकार्य कोलाहलेन स्वयमपि निभृतः सन्पश्य षण्मासमेकं । हृदयसरसि पुंसः पुद्गलाद्भिन्नधाम्नो ननु किमनुपलब्धिर्माति किंचोपलब्धिः ॥ "
प्रकृष्यमाणायां च स्वात्मसंवित्तौ यानि चिह्नानि स्युस्तान्याकर्णय । यथानिशामयति निःशेषमिंद्रजालोपमं जगत् ।
स्पृहयत्यात्मलाभाय गत्वान्यत्रानुतप्यते ॥ ३९ ॥
योगीत्यंत दीपकत्वात्सर्वत्र योऽज्यः । स्वात्मसंवित्तिरसिको ध्याता चराचरं बहिर्वस्तुजातमवश्योऽपेक्षणीयतया हानोपादान बुद्धिविषयत्वादिद्रजालिकोपदर्शित सर्पहारादिपदार्थसार्थसदृशं पश्यति । तथात्मलाभाय स्पृहयति चिदानंदस्वरूपमात्मानं संवेदयितुमिच्छति । तथा अन्यत्र स्वात्मव्यति-रिक्ते यत्र कापि वस्तुनि पूर्वसंस्कारादिवशात्मनोवाक्कायैर्गत्वा व्यापृत्य अनुतप्यते स्वयमेव आः कथं मयेदमनात्मानमनुष्ठितमिति पश्चात्ताप करोति । तथा, –
इच्छत्येकांतसंवासं निर्जनं जनितादरः । निजकार्यवशात्किंचिदुक्त्वा विस्मरति द्वतं ॥ ४० ॥ एकांते स्वभावतो निर्जने गिरिगहनादौ संवासं गुर्वादिभिः सहावस्थान-
१ प्रकाशकर्ती । २ तस्यात्मसंवित्तेरभावाद्विषयरुचेरप्यभावः । ३ उत्कृष्टाया: ४ प्रकृष्टो भवति । ५ अवलोकयति । ६ परिहरणीयत्वात् । ७ आत्मनोऽहितम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org