________________
इष्टोपदेशः ।
मभिलषति । किं विशिष्टः सन्, जनितादरो जनमनोरंजनचमत्कारि मंत्रादि प्रयोगवा निवृत्तौ कृतप्रयत्नः । कस्मै निर्जनं जनाभावाय स्वार्थवशालाभालाभादि प्रश्नार्थ लोकमुपसय॑तं निषेधमित्यर्थः । ध्यानाद्धि लोकचमत्कारिणः प्रत्ययाः स्युः । तथा चोक्तं,
गुरूपदेशमासाद्य समभ्यस्यन्ननारतं ।
धारणा सौष्ठवाध्यानप्रत्ययानपि पश्यति ॥" तथा स्वस्वावश्यकरणीयभोजनादिपारतंत्र्यात्किंचिदल्पमसमग्रं श्रावकादिकं प्रति अहो इति अहो इदमिति अहो इदं कुर्वन्नित्यादि भाषित्वा तत्क्षण एव विस्मरति । भगवन् किमादिश्यत इति श्रावकादौ पृच्छति सति न किमप्युत्तरं ददाति । तथा;
ब्रुवन्नापि हि न ब्रूते गच्छन्नपि न गच्छति । स्थिरीकृतात्मतत्त्वस्तु पश्यन्नपि न पश्यति ॥४१॥ स्थिरीकृतात्मतत्त्वो दृढप्रतीतिगोचरीकृतस्वस्वरूपो योगी संस्कारवशात्परोपरोधेन ब्रुवन्नपि धर्मादिकं भाषमाणोऽपि न केवलं योगेन तिष्ठति ह्यपिशब्दार्थः । न ब्रूते हि न भाषत एव । तत्राभिमुख्याभावात् । उक्तं च
“ आत्मज्ञानात्परं कार्य न बुद्धौ धारयेच्चिरं ।
कुर्यादर्थवशात्किंचिदाक्कायाभ्यासतत्परः ॥" तथा भोजनार्थ ब्रजन्नपिन व्रजत्यपि । तथा सिद्धप्रतिमादिकमवलोकयनपि नावलोकयत्येव । तुरेवार्थः । तथा
किमिदं कीदृशं कस्य कस्मात्क्वेत्यविशेषयन् ।
स्वदेहमपि नावैति योगी योगपरायणः ॥ ४२ ॥ इदमध्यात्ममनुभूयमानं तत्त्वं किं किंरूपं कीदृशं केन सदृशं कस्य स्वामिकं कस्मात्कस्य सकाशात्क कस्मिन्नस्तीत्यविशेषयन् अविकल्पयन्सन
" आगच्छंत । २ श्रेष्ठत्वात् । ३ आत्मशरीरयोः । ४ पराधीनतया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org