SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५४ wwwwwwwwwwwww یا نہ ہی اس بي يحب ي wwwwwwwww श्रीमत्पूज्यपादस्वामिविरचितः योगपरायणः समरसीभावमापनो योगी स्वदेहपि न चेतयति का कथा हिताहितदेहातिरिक्तवस्तुचेतनायाः । तथा चोक्तं--- " तदा च परमैकाग्र्यावहिरर्थेषु सत्स्वपि । अन्यन्न किंचनाभाति स्वमेवात्मनि पश्यतः ॥" अवाह शिष्यः-कथमेतदिति । भगवन विस्मयो मे कथमेतदवस्थांतरं संभवति । गुरुराह-धीमन्निबोध । यो यत्र निवसन्नास्ते स तत्र कुरुते रात। यो यत्र रमते तस्मादन्यत्र स न गच्छति ॥४३॥ यो जनो यत्र नगरादौ स्वार्थे सिद्धयंगत्वेन बद्धनिर्बधवास्तव्यो भवन तिष्ठति स तस्मिन्नन्यस्मानिवृत्तचित्तत्त्वानिवृतित्वं लभते । यत्र यश्च तथा निर्वाति स ततोऽन्यत्र न यातीति प्रसिद्धं प्रतीतमतः प्रतीहि योगिनोऽध्यात्म निवसतोननुभूतापूर्वानंदानुभवादन्यत्र वृत्त्यभावः स्यादिति । अन्यत्राप्रवर्त्तमानश्चेदृक् स्यात् अगच्छंस्तद्विशेषाणामनभिज्ञश्च जायते। अज्ञाततद्विशेषस्तु बचते न विमुच्यते ॥४४॥ ' स्वात्मतत्त्वनिष्टोऽन्यत्र अगच्छन्नप्रवर्तमानस्तस्य स्वात्मनाऽन्यस्य देहा- . दविशेषाणां सौंदर्यासौंदर्यादिधर्माणामनभिज्ञ आभिमुख्येनाप्रतिपैत्ता च भवति । अज्ञाततद्विशेषः पुनस्तत्रा जायमानरागद्वेषत्वात्कर्म भिर्नवध्यते किं तर्हि विशेषेण बतायनुष्ठातृभ्योऽतिरेकेणं तैमुचते । किं च परः परस्ततो दुःखमात्मैवात्मा ततः सुखं । अत एव महात्मानस्तन्निमित्तं कृतोद्यमाः ॥४५॥ परोदेहादिरर्थः पर एव कथंचिदपि तस्यात्मीकर्तुमशक्यत्वात् यतश्चैवं ततस्तस्मादात्मन्यारोप्यमाणादुःखमेव स्यात्तवारत्वादुःखनिमित्तानां प्रवृत्तेः । १ जानीहि । २ निष्पत्तिनिमित्तं । ३ स्थिति-1 ४ अज्ञाता ! ५ अधिकतया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy