________________
इष्टोपदेशः।
५५
Vvvvvv
तथा आत्मा आत्मैव स्यात् । तस्य कदाचिदपि देहादिरूपत्वानुपादानात् । यतश्चैवं ततस्तस्मात्सुखं स्याहःखनिमित्तानां तस्यांविषयत्वात् । यतश्चैवं अत एव महात्मानस्तीर्थकरादयस्तस्मिन्निमित्तमात्मार्थ कृतोद्यमा विविहिततापानुष्ठानाभियोगाः संजाताः । अथ परद्रव्यानुरागो दोषं दर्शयति;
अविद्वान्पुद्गलद्रव्यं योऽभिनंदति तस्य तत् । न जातु जंतोः सामीप्यं चतुर्गतिषु मुंचति ॥ ४६ ॥ यः पुनरविद्वान् हेयोपादेयतत्त्वानभिज्ञः पुद्गलद्रव्यं देहादिकमभिनंदति श्रद्धत्ते आत्मात्मीयभावेन प्रतिपद्यते तस्य जंतोजीवस्य तत्पुद्गलद्रव्यं चतसृषु नारकादिगतिषु सामीप्यं प्रत्यासत्तिं संयोगसंबंधं जातु कदाचिदपि न त्यजति । अथाह शिष्यः-स्वरूपपरस्य किं भवतीति सुगमं । गुरुराह
आत्मानुष्ठाननिष्ठस्य व्यवहारबहिःस्थितेः ।
जायते परमानंदः कश्चिद्योगेन योगिनः ॥ ४७॥ आत्मनोऽनुष्ठानं देहादेावर्त्य स्वात्मन्येवावस्थापनं तत्परस्य व्यवहारात्प्रवृत्तिनिवृत्तिलक्षणाद्वहिःस्थितेः बाह्यस्य योगिनो ध्यातुर्योगेन स्वात्मध्यानेन हेतुना कश्चिद् वाचागोचरः परमोऽनन्यसंभवी आनंद उत्पद्यते । तत्कार्यमुच्यते
आनंदो निर्दहत्युद्धं कर्मेधनमनारतं ।
न चासौ खिद्यते योगी बहिर्दुःखेष्वचेतनः ॥४८॥ स पुनरानंद उद्धं प्रभूतं कर्मसंततिं निर्दहति । वह्निरिधने यथा । किं च असावानंदाविष्टो योगी बहिर्दुःखेषु परीषहोपसर्गक्लेशेषुअचेतनोसंवेदनः स्यात्तत एव न खिद्यते न संक्लेशं याति । यस्मादेवं तस्मात्---
अविद्याभिदुरं ज्योतिः परं ज्ञानमयं महत् । त्प्रष्टव्यंतदेष्टव्यं तद्रष्टव्यं मुमुक्षुभिः ॥ ४९ ॥
१ आत्मनः । २ आग्रहाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org