________________
तत्त्वानुशासनम् ।
बंधस्य कार्यः संसारः सर्वदुःखप्रदोंगिनां । द्रव्यक्षेत्रादिभेदेन स चानेकविधः स्मृतः ॥ ७ ॥ स्युर्मिथ्यादर्शनज्ञानचारित्राणि समासतः । बंधस्य हेतवोऽन्यस्तु त्रयाणामेव विस्तरः ॥ ८ ॥ अन्यथावस्थितेष्वर्थेष्वन्यथैव रुचिर्नृणां । दृष्टिमहोदयान्मोहो मिथ्यादर्शनमुच्यते ॥ ९॥ ज्ञानावृत्युदयादर्थेष्वन्यथाधिगमो भ्रमः । अज्ञानं संशयश्चेति मिथ्याज्ञानमिह त्रिधा ॥ १० ॥ वृत्तिमोहोदयाज्जन्तोः कषायवशवर्त्तिनः । योगप्रवृत्तिरशुभा मिथ्याचारित्रमूचिरे ॥ ११ ॥ बंधहेतुषु सर्वेषु मोहश्च प्राक् प्रकीर्तितः । मिथ्याज्ञानं तु तस्यैव सचिचत्वमशिश्रियन् ॥ १२ ॥ ममाहंकारनामानौ सेनान्यौ तौ च तत्सुतौ । यदायत्तः सुदुर्भेदो मोहव्यूहः प्रवर्त्तते ॥ १३ ॥ शश्वदनात्मीयेषु स्वतनुप्रमुखेषु कर्मजनितेषु । आत्मीयाभिनिवेशो ममकारो मम यथा देहः ॥ १४ ॥ ये कर्मकृता भावाः परमार्थनयेन चात्मनो भिन्नाः । तत्रात्माभिनिवेशोऽहंकारोऽहं यथा नृपतिः ॥ १५ ॥ मिथ्याज्ञानान्वितान्मोहान्ममाहंकारसंभवः । इमकाभ्यां तु जीवस्य रागो द्वेषस्तु जायते ॥ १६ ॥ ताभ्यां पुनः कषायाः स्युर्नो कषायाश्च तन्मयाः । तेभ्यो योगाः प्रवर्तन्ते ततः प्राणिवधादयः ॥ १७ ॥ तेभ्यः कर्माणि बध्यन्ते ततः सुगतिदुर्गती । तत्र कायाः प्रजायन्ते सहजानीन्द्रियाणि च ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org