________________
ge
तत्त्वानुशासनादि-संग्र९
Jain Education International
श्रीमन्नागसेनमुनिविरचितं तत्त्वानुशासनम् ।
सिद्धस्वार्थानशेषार्थस्वरूपस्योपदेशकान् । परापरगुरून्नत्वा वक्ष्ये तत्त्वानुशासनं ॥ १ ॥ अस्ति वास्तव सर्वज्ञः सर्वगीर्वाणवंदितः । घातिकर्मक्षयोद्भूतस्पष्टानंतचतुष्टयः ॥ २ ॥ तापत्रयोपतप्तेभ्यो भव्येभ्यः शिवशर्मणे । तत्त्वं हेयमुपादेयमिति द्वेधाभ्यधादसौ ॥ ३ ॥ बंधो निबंधनं चास्य हेयमित्युपदर्शितं । हेयं स्याद्दुःखसुखयोर्यस्माद्वीजमिदं द्वयं ॥ ४ ॥ मोक्षस्तत्कारणं चैतदुपादेयमुदाहृतं । उपादेयं सुखं यस्मादस्मादाविर्भविष्यति ॥ ५ ॥ तत्र बंधः सहेतुभ्यो यः संश्लेषः परस्परं । जीवकर्मप्रदेशानां स प्रसिद्धचतुर्विधः ॥ ६ ॥
For Private & Personal Use Only
www.jainelibrary.org