Book Title: Swaroopsambhodhan Panchvinshati
Author(s): Bhattalankardev, Sudip Jain
Publisher: Sudip Jain

View full book text
Previous | Next

Page 152
________________ विद्यते । उपयोगादिलक्षणलक्षितात्मास्ति, तेन परवादिकल्पितात्मस्वरूपं न भवतीति तात्पर्यम् ।। 2 । । उत्थानिका- पुनरप्यात्मद्रव्यस्य नयविवक्षाभेदेन चेतनत्वमावदेयति-पद्य 3 ( प्रमेयत्वादि.... ) की टीका प्रमेयत्वादिभिः प्रमेयत्वं सम्बोधकत्त्वं द्रव्यत्वं- प्रदेशत्वादिकैः धर्मैः वस्तुस्वभावैः अचिदात्मा अचेतनस्वभाव:, ज्ञानदर्शनत: ज्ञानदर्शनाभ्यां चिदात्मकः चैतन्यस्वरूपः, तस्मात् तेन कारणेन चेतनाचेतनात्मकः चेतनाचेतनस्वभावः । साधारणधर्मोऽचेतनत्वं, असाधारणधर्मश्चेतनत्वं भवतीति भावार्थ ।। 3 ।। उत्थानिका - तत्त्वज्ञानं निर्विकारचिदानन्दैकस्वभावपरमात्मनो भिन्नभिन्नं चेत्युक्ते प्रत्युत्तरं ददादि पद्म 4 ( ज्ञानाद्भिन्नो......) की टीका यत् यस्मात् कारणात् पूर्वापरीभूतं प्रथमोत्तरसंजातं ज्ञानं स्वपरग्राहकप्रमाणं सोऽयं स एष: आत्मेति सहजप्रकाश इति कीर्तितः कथितः, तत् तस्मात्कारणात् आत्मा ज्ञानात् ज्ञानतः भिन्नः पृथक् भवति, अतो चाभिन्नः ज्ञानात् पृथक् न भवतीति अभिन्न: - इति कथंचन अनेकान्तरूपेण भिन्नाभिन्नस्वरूपः । अनेन नित्यैकान्त-क्षणिकैकान्तपरिहारेण ज्ञान ज्ञानिनोर्न सर्वथा भेद इति भावार्थ: । उत्थानिका - स चात्मा किं प्रमाणमिति पृष्टे प्रमाणमावेदयतिपद्य 5 ( स्वदेहप्रमित... ) की टीका अयम् एष आत्मा च यस्मात् कारणात् स्वदेहप्रमितः स्वकीयस्वीकृतशरीरप्रमाणः, ततः तस्मात् कारणात् ज्ञानमात्रोऽपि ज्ञानप्रमाणापि सर्वगतः सर्वव्यापी सम्मतः अभिमत:, सोऽपि स च सर्वथा सर्वप्रकारेण विश्वव्यापी समस्तलोकव्यापकः न तत्सम्मतः । सहजानन्दचैतन्यप्रकाशत्मतत्त्वं सर्वथा शरीरप्रमाणं न भवतीति तात्पर्यम् ।। 5 ।। पद्य की उत्थानिका - पुनरप्येकत्वानेकत्वात्मतत्त्वं निरूपयति टीका - स आत्मा नानाज्ञानस्वभावत्वाद् अनेकज्ञानस्वरूपत्वात् नैकः एको न भवति, चेतनैकस्वरूपत्वात् चैतन्यैकस्वभावत: अनेकोऽपि न भवति अनेकात्मको न भवति एकानेकात्मकः एकानेकस्वरूपः भवेत् स्यात् । द्रव्यपर्यायापेक्षया एकत्वानेकत्वं भवतीति तात्पर्यम् ।। 6 ।। पद्य 7 ( नावक्तव्यः... ) की उत्थानिका - पुनरपि एतत् सहजपरमात्मतत्वं वाच्यावाच्यं भवतीति निरूपयति । टीका- स एवात्मा एकानेकरूप आत्मा स्वरूपाद्यैः स्वद्रव्य-स्वक्षेत्र स्वकालस्वभावरूपस्वरूपादिचतुष्टयेन वक्तव्य: आत्मादिशब्दैर्वाच्यः, परभावतः परद्रव्य-परक्षेत्र 90 -

Loading...

Page Navigation
1 ... 150 151 152 153