Book Title: Swaroopsambhodhan Panchvinshati
Author(s): Bhattalankardev, Sudip Jain
Publisher: Sudip Jain
View full book text
________________ परकाल-परभावरूपादि- चतुष्टयेन निर्वाच्यः आत्मादिशब्दैरवाच्यः; तस्मात् तत: कारणात् एकान्तत: सर्वप्रकारेण वाच्य: वचनविषयो न भवति, बाचा वचनानाम् अगोचरः अदिषय: नापि न स्यात्। स्वरूपादिचतुष्टयेन वाच्यः, पररूपादिचतुष्टपेनावाच्यो भवतीति भावार्थ / / 7 / / पद्य 8 (स स्याद्...) की उत्थानिका - पुनरपि अस्तिनास्ति- रूपेणात्मतत्त्वमावदेयति टीका-स: तत्-सहजविलासविजृम्भितात्मपदार्थ: स्वधर्मपरधर्मयो: आत्मगतज्ञानाधिर्म-परगतरूपादिधर्मयोर्विवक्षितयो: सतो; विधिनिषेधात्मा अस्ति-नास्तिस्वरूप:स्यात् भवेत्; बोधमूर्तित्वात् ज्ञानस्वरूपत्वात् समूर्ति: मूर्तियुक्त:, विपर्ययात् रूपादिरहितत्वात् अमूर्ति: अमूर्तो भवति / सर्वथा अस्ति-नास्तिस्वरूप वस्तु नास्तीति तात्पर्यम् / / 8 / / पद्य 9 (इत्याद्यनेक...) की उत्थानिका - निश्चयेन सहजसुखरसास्वादकोऽपि व्यवहारेण कर्मफल-भोक्ता भवतीति सूचयति टीका- हे आत्मन् ! सहजसुखनिलय ! परमपदार्थ ! त्वं त्वं च इत्यायनेक धर्मत्वं कथितोपयोगादिधर्मस्वरूपो भवसि असि, तु पुन: स्वयमेव त्वमेव बंधमोक्षौ प्रकृत्याद्यात्मकबंधस्तविलक्षणमोक्षः तयोः तत् बन्धमोक्षयो: फलं कार्यरूपं तत्कारणै; तेषा कारणैः स्वीकुरुषे स्वयमेवाभ्युपगच्छसि / बन्ध-मोक्षफलानुभव-सामर्थ्याद्बन्ध-बन्धफले परित्यज्य, मोक्ष-मोक्षफले स्वीकुर्यादिति तात्पर्यम् / तथा चोक्तम् स्वयं कर्म करोत्यात्मा, स्वयं तत्फलमश्नुते / स्वयं भ्रमति संसारे, स्वयं तस्माद्विमुच्यते / / पद्य 10 (कर्ता य......) की उत्थानिका - अन्तरंग-बहिरंगसामग्री सद्भावाद् एव मोक्षो भवतीति कथयति टीका-यो य: कपिचज्जीवः कर्मणाम् - वृजिनानाम् कर्ता व्यवहारेण य: करोति स कर्ता, तु पुनः स एव कर्म-कतैव तत्फलानां तच्छुभाशुभरूपकर्मफलानां भोक्ता आस्वादकः, बहिरन्तरूपायाभ्यां अन्तरंगबहिरंगहेतुभ्यां त्वमेव स: स त्वं तेषा कृतकर्मणां भोक्ता विनाशक: / पातनिकार्थो भावार्थ / / 10 / / पद्य 11 (सद्दृष्टि ...) की उत्थानिका - मुक्तिहेतुमाह टीका-सदृष्टिज्ञानचारित्रं सम्यदर्शनावबोधचारित्रं स्वात्मलब्धये आत्मस्वरूपप्राप्तये उपाय: मुख्पकारणं भवति / तत्र दर्शनं कि रूपमित्युक्ते प्राह-तत्त्वे शुद्धात्मतत्त्वे याथात्म्य-सौस्थित्यं अविचलितरूचिः आत्मनो जीवस्य दर्शन सम्यदर्शनं मत सम्मतम् / निजशुद्धात्मतत्त्वे रूचि: सम्यग्दर्शनमिति तात्पर्यम् / / 11 / / पद्य 12 (यथावद्वस्तु .....) की उत्थानिका - सम्यग्ज्ञानस्वरूपमाह-- 91

Page Navigation
1 ... 151 152 153