Book Title: Siddhant Chandrika Purvarddham Author(s): Ramsharma Pandit Publisher: Kshemraj Krishnadas View full book textPage 4
________________ प्रास्ताविक किचित-- नाङ्गीकृतव्याकरणौषधानामपाटवं वाचि सुगूढमास्ते । कस्मिश्चिदुक्ते तु पदे कथंचित्स्वैरं वपुः स्विद्यति वेपते च ॥ १॥ - जयति जगज्जालेऽस्मिन् आ गीर्वाणेभ्य उत चा जगदुत्पत्तेः प्राक्तना श्रीमज्जयिनी गाँवा. गवाणी । तत्सिद्धी चाद्यपर्यन्तं महान्त्यनन्तानि व्याकरणान्यकाषुर्महर्षयो वैयाकरणाः । व्याकरणं नाम व्याक्रियन्ते सिद्धि प्राप्यन्ते प्रकृतिप्रत्ययादिभिः शब्दा येन शाखेण तन : नत्र प्रसिद्धा व्याकरणशासकर्तार: इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः। पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः॥ एतेप्वष्टासु व्याकरणकर्तृपूपवर्षशिप्येप्वेकतमः पाणिनिषिः शिवप्रसादाल्लब्धाक्षरसमा. म्नायोऽष्टाध्यायीसूत्रपाठादिभिर्व्याकरणं प्रणिनाय । तदेव कात्यायनन पूरित भुजंगमभूपतिना महर्षिणा पतञ्जलिना व्याख्यातं च । अत एवेदं त्रिमुनिव्याकरणं लोके प्रचार्यते । नचा. रमाकमिदानी प्रमाणम् । उक्तं च- इति लौकिकवाक्येषु व्यभिचारोऽतिपुष्कलः । विशेषः पाणिनेरिष्टः सामान्यमनुधार्यते ॥ सामान्यमनुग्रहाति तत्राचार्यपरम्परा ॥ अत एव पाणिनीयव्याकरणे बहवो ग्रन्था अद्य समुल्लसन्ति । तस्य सामान्येन वाचनमाप शतवर्षमानेनायुप्येण न भवेदितीदं ज्ञात्वा श्रीमदनुभूतिस्वरूपाचायैरेतदुक्तव्याकरणसरणिसारभूतं सरस्वतीप्रसादतो लब्धं सप्तशतसूत्रात्मकं सारस्वतं नाम व्याकरणं वृत्त्यादिभिः विशदार्थ के विधाय लोकेप्वध्ययनाध्यापनेषु प्रचालितम् । तम्यापीदानीतनजनमनीषाकुचनाल्लघुभाप्याधाकरानकुर्वन्महान्तः पाणिनीये महाभाष्यवत् । तत्र व्याकरणे यथा भट्टोजिदीक्षितप्रणीता वैयाकरणसिद्धान्तकौमुदी तथैवात्र वाणीप्रणीतव्याकरणे तत्कुलतिलक श्रीरामाश्रमाचार्यकृता वैयाकरणसिद्धान्तचन्द्रिकाऽऽर्यावर्ते वरीवति । यथा च तत्र सरलतया व्याख्यानं ज्ञानेन्द्रसरस्वतीकृत तत्त्वबोधिनी तथैवात्र सुखानन्दकृतं सुबोधिनी । एतयैवें साकै पूर्वमस्माभिः शिलाक्षः पुनः सीसकाक्षरैश्वाङ्किता सिद्धान्तचन्द्रिका लोकाश्रयपात्रीभूता संजाता । अतोऽन्यापि च काचिदध्ययनाध्यापनतत्त्वज्ञानकारिका टीका मुद्रणीयति विचारयतामस्माकं तत्त्वदीपिकापुस्तक काशीस्थं लेखनसंस्कारण मुद्राशिलासंस्कारितमतीवाशुद्धं लब्धम् । तत एव महतायासेन शुद्धीकृत्य मिद्धान्तचन्द्रिकाधस्तासुबोधिन्या साकं च तत्र तत्र मुद्रिता तत्त्वदीपिका। अस्याः प्रणेता पण्डितो लोकप्रसिद्धो लोकेशकरःषडागमनिपुण इति तद्वयाख्यातो ज्ञायत एव । अन्वर्थनाम्नी सुगमा सुबोधिनी प्रसिद्धपूर्वैव । तत्प्रणेता सदानन्दः सदानन्दः पण्डितोऽपि । एताय पुस्तकस्येत्थं मुद्रणक्रमादनेका आवृत्तयो जाताः । तथैवाधुनाचास्यामावृत्तावपि तट्टीकाद्वयोपेतयं सिद्धान्तचन्द्रिका शास्त्रिद्वारा भूरिश्रमण संशोध्य मुद्रिता सती विराजते । पूर्वमस्या एकयाऽपि सुबोधिन्या साकमङ्किताया: सिद्धान्तचन्द्रिकाया यन्मल्यं तदेव मूल्यं टीकाद्वयांपेतायाः सुपुष्टस्वच्छ पत्रेवड़िताया इति प्रार्थयाम: पण्डितानामाश्रयायेत्यलं पल्लवितनेत्यशेषमतिमङ्गलम् ।। विदजनक्रपाभिलाषी क्षेमराज-श्रीकृष्णदासः " श्रीवेङ्कटेश्वर " मुद्रणालयाध्यक्षः-मुम्बईस्थः।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 372