Book Title: Siddhant Chandrika Purvarddham
Author(s): Ramsharma Pandit
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 19
________________ [मङ्गलाचरणम् ] टीकाद्वयोपेता। नम् ॥ तत्त्वावबोधशब्दानां नास्ति व्याकरणाहते ॥ २॥" इत्युक्तत्वात्सर्वत उत्तम व्याकरणम् । तद्व्याकरणं सूत्रम्, सूत्रव्याख्यानम्, वाक्याध्याहारः, उदाहरणम् , प्रत्युदाहरणं चेति समुदितं भवति । तस्यैकदेशः सूत्रम् । तद्व्याख्यानं पञ्चधा। यथा-"पदच्छेदः पदार्थोक्तिविग्रहो वाक्ययोजना । आक्षेपस्य समाधान व्याख्यानं पञ्चधा स्मृतम्" इति ॥ तत्त्वदीपिकाप्रणम्य जगतां नाथं महेशं साम्बमव्ययम् ॥ सिद्धान्तचन्द्रिकाव्याख्या क्रियते तत्त्वदीपिका ॥१॥ प्रारिप्सितनिरन्तरायपरिसमाप्तये विहित मङ्गलं शिष्यशिक्षायै निबध्नन् चिकीर्षितं प्रतिजानीते। नमस्कृत्येत्यादिना ॥ अहं रामचन्द्राश्रमः वाणीप्रणीतसूत्राणां सिद्धान्तचन्द्रिकां कुर्वे । किं कृत्वा । महेशानं नमस्कृत्य । पुनः पतञ्जलेर्मतं बुद्ध्वेत्यन्वयः। नमो नतिं कृत्वा इति नमस्कृत्य । कृञः 'समासे क्यप्' इति पूर्वकाले क्यप् । हस्वस्येति तुक् । वाचस्पत्यादित्वाद्विसर्गस्य सः।नतिजन्यप्रीत्याश्रयत्वेन महेशानस्य कर्मत्वम् । ईष्टे इति ईशानः। ईश ऐश्वर्ये । शतृशानाविति शानप्रत्ययः। शिति चतुर्वदिति चतुर्ववादप् कर्तरीत्यप् । तस्यादादेरिति लुक् । ईशानाः सातिशयाः बहवः सन्ति तद्वयावृत्त्यर्थ विशेषणं महांधासावीशानश्चेति महेशानः।सहादित्वान्महत आत्वम् । सर्वापेक्षयोत्तमो यः परमेश्वरस्तम् । अनेन व्याकरणस्य सिद्धान्तः सूचितः। ध्वनिविशेषावच्छिन्नं ब्रह्मैव प्रतिपाद्यमिति । मन्यते इति मतम् । मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने मन्यतेः कर्मणि तक् । इच्छाविषयभूतं ज्ञानविषयभूत वा बुद्ध्वा ज्ञात्वेत्यर्थः।बुध अवगमने।पूर्वकाले क्त्वा।पूर्वकालत्वं च क्त्वाक्यपोः कुर्वेक्रियापेक्षया । खले कपोतन्यायेन द्वयोस्तत्र संबन्धः । विशेषणानां परस्परं संबन्धानभ्युपगमात्,आख्यातान्तवाच्यायाःक्रियाया विशेष्यत्वस्वीकारात्।पतन्नञ्जलियस्मिन् सर्वेषां नमस्कार्यत्वात् पतञ्जलिः तस्य पतञ्जलेरिति । मननक्रियाऽपेक्षया कर्तृकार्ययोरिति कर्तरि षष्ठी ।न क्तादाविति निषेधः क्तस्य स निषेधो न तु तकः। अनेन प्रक्रियामात्रं दृष्ट्वाऽयं ग्रन्थो न इध्यःकिन्तु भाष्यपर्यन्तं ज्ञात्वेति सूचितम् । वणतिवेदशब्दमुच्चारयति इति वणो ब्रह्मा। 'वण शब्दे'पचाद्यः। तस्येयं शक्तिवाणी सरस्वती । 'देवतेदमर्थे' इत्यण् । व्रण ईप् । यद्वा वाणयति सर्वान् जीवान् शब्दोच्चारणे प्रेरयतीति ज्यन्तात्पचाद्यः।नदादेरितीप् । प्रणीयन्ते इति प्रणीतानि।णीञःकर्मणि तः। वाण्या प्रणीतानि वाणीप्रणीतानि । अमादाविति तत्पुरुषः। सीव्यन्तेऽन्तर्भाव्यन्ते अस्मिन्नर्था यैस्तानि सूत्राणि । षिवु तन्तुसंताने । सिवेरुच्चेत्यौणादिकस्त्रप्रत्ययः। यद्वा सूत्रयन्ति वेष्टयन्ति अल्पाक्षरैर्बहूनानिति सूत्राणि । 'सूत्र वेष्टने'चुरादिः। पचाद्यः । अल्पाक्षरैर्बह्वर्थसूचकानि।वाणीप्रणीतानि च तानि सूत्राणि चेति कर्मधारयस्तेषाम्। संबन्धसामान्ये षष्ठी। कुर्व इति कृो वर्तमाने जित्त्वादात्मनेपदम् । उत्तमपुरुषस्यैकवचनम्।तनादेरुप् । गुणः। ङित्यदुरित्युत्वम् । य्वोर्विं हस इति दीर्घस्तु न संभवति संज्ञापूर्वकत्वात्।संज्ञापूर्वको विधिरनित्यः। द्विमात्रो दीर्घ इति संज्ञा असेधीदिति सिद्धः।षिधू शास्त्रादौ । गत्यर्थेति क्तः। सिद्धो निष्पन्नोऽन्तो निश्चयोऽत्रेति सिद्धान्तः। अन्यार्थे बहुव्रीहिः। चन्द्रोऽस्त्याश्रयत्वेनास्या इति चन्द्रिका।अइकावितीकः। सिद्धान्तानांचन्द्रिकासिद्धान्त

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 372