Book Title: Siddha Hemchandrashabdanu Shasanam Part 1
Author(s): Hemchandracharya, Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious
View full book text ________________
श्रीसिद्धहेमचन्द्र शब्दानुशासनम्
क्षराणां ह्रस्वा न सन्ति इति तानि प्रत्येकं द्वादशभेदानि । तत्र एकारास्ता - लव्या विवृततराः स्वाः । ऐकारास्तालव्या अतिविवृततराः स्वाः । ओकास ओष्ठ्या विवृततराः स्वाः । औकारा ओष्ठ्या अतिविवृततराः स्वाः । वर्याः पञ्च पञ्च परस्परं स्वाः । य-ल-वानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्परं स्वौ ||१७||
स्यौ -जसमौ - शस्-टा-भ्याम् - भिस् - डे - भ्याम्भ्यस्ङसि - भ्याम्भ्यस्ङसोसाम्-योस्-सुपां त्रयी त्रयी प्रथमाऽऽदिः 1919 1१८ ॥
स्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी च स्यात् ||१८||
-
स्त्यादिर्विभक्तिः 191919९॥
'स' इति च 'ति' इति च उत्सृष्टानुबन्धस्य सेस्तिवश्च ग्रहणम् । स्यादयस्तिवादयश्च सुप्-स्यामहिपर्यन्ता विभक्तयः स्युः ॥ १९॥
तदन्तं पदम् । १।१।२०॥
स्याद्यन्तं त्याद्यन्तं च पदं स्यात् । धर्मो वः स्वम् ददाति नः शास्त्रम् ॥२०॥ नाम सिदयुव्यञ्जने 191१॥२१॥
सिति प्रत्यये यवर्जव्यञ्जनादौ च परे, पूर्वं नाम पदं स्यात् । भवदीयः, पयोभ्याम् । 'अय्' इति किम् ? वाच्यति ॥२१॥
नं क्ये |१|१|२२॥
'क्ये' इति क्यन् क्यङ् क्यषां ग्रहणम् । नान्तं नाम क्ये परे पदं स्यात् । राजीयति, राजायते, चर्मायति ॥२२॥
न स्तं मत्वर्थे |9|१|२३॥
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 316