SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्र शब्दानुशासनम् क्षराणां ह्रस्वा न सन्ति इति तानि प्रत्येकं द्वादशभेदानि । तत्र एकारास्ता - लव्या विवृततराः स्वाः । ऐकारास्तालव्या अतिविवृततराः स्वाः । ओकास ओष्ठ्या विवृततराः स्वाः । औकारा ओष्ठ्या अतिविवृततराः स्वाः । वर्याः पञ्च पञ्च परस्परं स्वाः । य-ल-वानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्परं स्वौ ||१७|| स्यौ -जसमौ - शस्-टा-भ्याम् - भिस् - डे - भ्याम्भ्यस्ङसि - भ्याम्भ्यस्ङसोसाम्-योस्-सुपां त्रयी त्रयी प्रथमाऽऽदिः 1919 1१८ ॥ स्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी च स्यात् ||१८|| - स्त्यादिर्विभक्तिः 191919९॥ 'स' इति च 'ति' इति च उत्सृष्टानुबन्धस्य सेस्तिवश्च ग्रहणम् । स्यादयस्तिवादयश्च सुप्-स्यामहिपर्यन्ता विभक्तयः स्युः ॥ १९॥ तदन्तं पदम् । १।१।२०॥ स्याद्यन्तं त्याद्यन्तं च पदं स्यात् । धर्मो वः स्वम् ददाति नः शास्त्रम् ॥२०॥ नाम सिदयुव्यञ्जने 191१॥२१॥ सिति प्रत्यये यवर्जव्यञ्जनादौ च परे, पूर्वं नाम पदं स्यात् । भवदीयः, पयोभ्याम् । 'अय्' इति किम् ? वाच्यति ॥२१॥ नं क्ये |१|१|२२॥ 'क्ये' इति क्यन् क्यङ् क्यषां ग्रहणम् । नान्तं नाम क्ये परे पदं स्यात् । राजीयति, राजायते, चर्मायति ॥२२॥ न स्तं मत्वर्थे |9|१|२३॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy