________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
सान्तं तान्तं च नाम मत्वर्थे परे पदं न स्यात् । यशस्वी, तडित्वान् ॥ २३॥ मनुर्नभोऽङ्गिरो वति |9|१|२४॥
एतानि वति परे पदं न स्युः । मनुष्वत्, नभस्वत्, अङ्गिरस्वत् ||२४| वृत्त्यन्तोऽसवे | १|१|२५॥
परार्थाभिधायी समासादिवृत्तिः, तस्या अन्तः- अवसानं पदं न स्यात्, असवेसस्य तु षत्वे पदमेव । परमदिवी, बहुदण्डिनी । असष इति किम् ? दधिसेक् ||२५||
हो अ
सविशेषणमाख्यातं वाक्यम् ।१।१।२६ ॥
प्रयुज्यमानैरप्रयुज्यमानैर्वा विशेषणैः सहितं प्रयुज्यमानमप्रयुज्यमानं वा आख्यातं वाक्यं स्याद् । धर्मो वो रक्षतु लुनीहि३ पृथुकाँश्च खाद, शीलं ते स्वम् ॥२६॥
अधातु
-विभक्ति-वाक्यमर्थवत्राम |१|१|२७||
धातु-विभक्त्यन्त-वाक्यवर्जमर्थवच्छब्दरूपं नाम स्यात् । वृक्षः, स्वः, धवश्च । अधातुविभक्तिवाक्यमिति किम् ? अहन्, वृक्षान् साधु धर्मं ब्रूते ॥२७॥ शिर्घुट् 19191२८ ॥
जस्-शसादेशः शिर्घुट् स्यात् । पद्मानि तिष्ठन्ति, पश्य वा ॥२८॥ पुं- स्त्रियोः स्यमौ जस् 19।१।२९॥
स्यादयः पुं- स्त्रीलिङ्गयोर्घटः स्युः । राजा, राजानी, राजानः, राजानम्, राजानी; सीमा, सीमानौ, सीमानः, सीमानम् ॥२९॥
स्वरादयोऽव्ययम् | १|१|३०॥
स्वरादयोऽव्ययानि स्युः । स्वर् अन्तर्, प्रातर् इत्यादि ||३०|| चाऽऽदयोऽसत्त्वे 19।१।३१॥