________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
ग घ ङ च छ ज झ ञ,ट ठ ड ढ ण,त थ द ध न,प फ ब भ म ॥१२॥
आद्य-द्वितीय-श-ष-सा अघोषाः ।११।१३॥ वर्गाणामाद्यद्वितीया वर्णाः श-ष-साश्च 'अघोषाः' स्युः । क ख, च छ, ट ठ, त य, प फ, श ष स ॥१३॥
__ अन्यो घोषवान् 191१1१४॥ अघोषेभ्योऽन्यः कादिर्वर्णो घोषवान् स्यात् । ग घ ङ, ज झ ञ, ड ढ ण, द ध न, ब भ म, य र ल व, ह ॥१४॥
य-र-ल-वा अन्तस्थाः 19191१५॥ एते 'अन्तस्थाः ' स्युः ॥१५॥
अं-अ:-xक-प-श-ष-साः शिट् 1१1१1१६॥ अ-क-पा उच्चारणार्थाः, अनुस्वार-विसर्गी वज्र-गजकुम्भाऽऽकृती च वर्णी, शष-साश्च शिटः स्युः ॥१६॥
तुल्यस्थानाऽऽस्यप्रयत्नः स्वः ।१1१1१७॥ स्थानं कण्ठादि
"अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥१॥" आस्ये प्रयल:-आस्यप्रयलः, स्पृष्टतादिः । तुल्यौ- वर्णान्तरेण सदृशौ । स्थानाऽऽस्यप्रयलौ यस्य, स वर्णस्तं प्रति स्वः स्यात् । तत्र त्रयोऽकारा उदात्ता-ऽनुदात्त-स्वरिताः, प्रत्येकं सानुनासिक-निरनुनासिकभेदात् षट्, एवं दीर्घ-प्लुतौ इति ‘अष्टादश भेदा अवर्णस्य', ते सर्वे कण्ठस्थाना विवृतकरणाः परस्परं स्वाः । एवम्-इवर्णास्तावन्तस्तालव्या विवृतकरणाः स्वाः । उवर्णा ओष्ठ्या विवृतकरणाः स्वाः । ऋवर्णा मूर्द्धन्या विवृतकरणाः परस्परं स्वाः । लवर्णा दन्त्या विवृतकरणाः परस्परं स्वाः । सन्ध्य