Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [इमाः परस्परां परस्परस्मिन् वा स्निहन्ति ] 'ष्णिहौच् प्रीतौ' (१२४१) ष्णिह् । ' षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) स्निह् । वर्त्त० अन्ति । 'दिवादेः श्यः' (३।४।७२) श्यप्र०य । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[इमे नराः परस्परं भोजयन्ति ] 'भुजंप् पालना -ऽभ्यवहारयोः ' (१४८७) भुज् । भुञ्जानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । 'लघोरुपान्त्यस्य' ( ४ | ३ |४) गु० ओ । वर्त्त० अन्ति । कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[ नरैः परस्परेण भोज्यते ] 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । भुञ्जानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्यः शिति' (३।४।७०) क्यप्र०य । 'णेरनिटि' (४।३।८३) णिग्लोपः ॥ छ ॥
अमव्ययीभावस्याऽतोऽपञ्चम्याः || ३| २|२॥
[अव्ययीभावस्य ] न वि 'इंण्क् गतौ' (१०७५) इ । न व्येति = न क्षयंयातीत्यव्ययम् । 'युवर्ण-वृ-दृ-वश-रण-गमृदग्रहः' (५।३।२८) अल्प० अ । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'इवर्णादे० ' (१।२।२१) यत्वम् । 'नञत्' ( ३।२।१२५ ) न० अ० । 'भू सत्तायाम् ' ( १ ) भू । अनव्ययस्य अव्ययस्य भवनं = अव्ययीभावः । ‘वा ज्वलादि दु-नी- भू-ग्रहाऽऽस्त्रोर्ण:' ( ५।१।६२) ० अ । 'नामिनोऽकलि-हले:' ( ४ | ३ |५१) वृद्धिः औ । ‘ओदौतोऽवाव्’ (१।२।२४) आव् । 'कृभ्वस्तिभ्यां कर्मकर्तृभ्याम्०' (७।२।१२६) च्चिप्र० । 'ईश्च्वाववर्णस्याऽनव्ययस्य' (४।३।१११) ई । 'अप्रयोगीत्' (१।१।३७) च्चिलोपः, तस्य ।
[ अपञ्चम्याः ] न पञ्चमी = अपञ्चमी । 'नञत्' (३।२।१२५) न० अ०, तस्याः ।
[ उपकुम्भं तिष्ठति ] कुम्भस्य समीपं = उपकुम्भम् । सि । अनेनाऽम् ।
[उपकुम्भं पश्य ] कुम्भस्य समीपं = उपकुम्भम् । अम् । अनेनाऽम् । [ उपकुम्भं देहि ] कुम्भस्य समीपं = उपकुम्भम् । ङे । अनेनाऽम् । [ उपकुम्भं स्वामी ] कुम्भस्य समीपं = उपकुम्भम् । ङस् । अनेनाऽम् । [ कष्टश्रितः ] कष्टं श्रितः । ' श्रितादिभिः' ( ३।१।६२ ) समासः ।
[प्रियोपकुम्भस्तिष्ठति ] प्रियमुपकुम्भं यस्य सः ।
[प्रियोपकुम्भाय देहि] प्रियमुपकुम्भं यस्य सः, तस्मै ।
[ अधिस्त्रि ] स्त्रीष्वधि ।
[उपवधु] वध्वाः समीपम् ।
[उपकर्तृ] कर्तुः समीपम् । सि । 'अनतो लुप्' ( ३।२।६) सिलुप् ।
[ उपकुम्भात्] कुम्भस्य समीपमुपकुम्भम् तस्मात् ॥ छ ॥
वा तृतीयायाः || ३ |२| ३ ||
[ किं न उपकुम्भम्, किं न उपकुम्भेन ] अस्मद् । षष्ठी आम् । 'पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे' (२।१।२१) “नस्” आदेशः । कुम्भस्य समीपमुपकुम्भम् । 'कृताऽऽद्यैः ' (२।२।४७) तृतीया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 400