SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [इमाः परस्परां परस्परस्मिन् वा स्निहन्ति ] 'ष्णिहौच् प्रीतौ' (१२४१) ष्णिह् । ' षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) स्निह् । वर्त्त० अन्ति । 'दिवादेः श्यः' (३।४।७२) श्यप्र०य । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [इमे नराः परस्परं भोजयन्ति ] 'भुजंप् पालना -ऽभ्यवहारयोः ' (१४८७) भुज् । भुञ्जानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । 'लघोरुपान्त्यस्य' ( ४ | ३ |४) गु० ओ । वर्त्त० अन्ति । कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [ नरैः परस्परेण भोज्यते ] 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । भुञ्जानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्यः शिति' (३।४।७०) क्यप्र०य । 'णेरनिटि' (४।३।८३) णिग्लोपः ॥ छ ॥ अमव्ययीभावस्याऽतोऽपञ्चम्याः || ३| २|२॥ [अव्ययीभावस्य ] न वि 'इंण्क् गतौ' (१०७५) इ । न व्येति = न क्षयंयातीत्यव्ययम् । 'युवर्ण-वृ-दृ-वश-रण-गमृदग्रहः' (५।३।२८) अल्प० अ । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'इवर्णादे० ' (१।२।२१) यत्वम् । 'नञत्' ( ३।२।१२५ ) न० अ० । 'भू सत्तायाम् ' ( १ ) भू । अनव्ययस्य अव्ययस्य भवनं = अव्ययीभावः । ‘वा ज्वलादि दु-नी- भू-ग्रहाऽऽस्त्रोर्ण:' ( ५।१।६२) ० अ । 'नामिनोऽकलि-हले:' ( ४ | ३ |५१) वृद्धिः औ । ‘ओदौतोऽवाव्’ (१।२।२४) आव् । 'कृभ्वस्तिभ्यां कर्मकर्तृभ्याम्०' (७।२।१२६) च्चिप्र० । 'ईश्च्वाववर्णस्याऽनव्ययस्य' (४।३।१११) ई । 'अप्रयोगीत्' (१।१।३७) च्चिलोपः, तस्य । [ अपञ्चम्याः ] न पञ्चमी = अपञ्चमी । 'नञत्' (३।२।१२५) न० अ०, तस्याः । [ उपकुम्भं तिष्ठति ] कुम्भस्य समीपं = उपकुम्भम् । सि । अनेनाऽम् । [उपकुम्भं पश्य ] कुम्भस्य समीपं = उपकुम्भम् । अम् । अनेनाऽम् । [ उपकुम्भं देहि ] कुम्भस्य समीपं = उपकुम्भम् । ङे । अनेनाऽम् । [ उपकुम्भं स्वामी ] कुम्भस्य समीपं = उपकुम्भम् । ङस् । अनेनाऽम् । [ कष्टश्रितः ] कष्टं श्रितः । ' श्रितादिभिः' ( ३।१।६२ ) समासः । [प्रियोपकुम्भस्तिष्ठति ] प्रियमुपकुम्भं यस्य सः । [प्रियोपकुम्भाय देहि] प्रियमुपकुम्भं यस्य सः, तस्मै । [ अधिस्त्रि ] स्त्रीष्वधि । [उपवधु] वध्वाः समीपम् । [उपकर्तृ] कर्तुः समीपम् । सि । 'अनतो लुप्' ( ३।२।६) सिलुप् । [ उपकुम्भात्] कुम्भस्य समीपमुपकुम्भम् तस्मात् ॥ छ ॥ वा तृतीयायाः || ३ |२| ३ || [ किं न उपकुम्भम्, किं न उपकुम्भेन ] अस्मद् । षष्ठी आम् । 'पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे' (२।१।२१) “नस्” आदेशः । कुम्भस्य समीपमुपकुम्भम् । 'कृताऽऽद्यैः ' (२।२।४७) तृतीया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy