________________
।। अहम् ।। कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।। श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ॥
॥ अथ तृतीयाध्यायस्य द्वितीयः पाद: ॥
परस्परा-ऽन्योन्येतरेतरस्याम् स्यादेर्वाऽसि ।।३।२।१।। [परस्पराऽन्योन्येतरेतरस्याम्] परस्परं च अन्योन्यं च इतरेतरं च = परस्पराऽन्योन्येतरेतरम्, तस्य । आम्शब्दात् स्वरूपेण अर्थवत्त्वात् सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः । प्रश्लेषव्याख्याने यदा अम् स्थाप्यते तदा लिङ्गत्रयेऽपि स्यादिस्थाने अमा भाव्यम् ।
[स्यादेः] सिरादिर्यस्याऽसौ स्यादिस्तस्य ।
[अपुंसि] न पुमान् = अपुमान्, तस्मिन् ।
[इमे सख्यौ परस्परां भोजयतः, परस्परं भोजयतः] परश्च परश्च । अम् । अनेन आम् । 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) । भुज् । भुङ्क्ते परस्परं कर्ता, तं भुजानं सख्यौ प्रयुञ्जाते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० →इ। 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त्त० तस् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[आभिः सखीभिः परस्परां भोज्यते, परस्परेण भोज्यते] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुङ्क्ते ब्राह्मणस्तं परस्परः प्रयुक्ते । णिगप्र० । तं परस्परं भोजयन्तं सख्यः प्रयुञ्जते । पुनर्णिम् । यदा कर्तरि तृतीया तदा णिग् द्वयम् । यदा तु करणे सहार्थे वा परस्परादिपदं वर्तते तदा एको णिग् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । ‘णेरनिटि' (४।३।८३) णिग्लोपः ।
[इमाः सख्यः परस्परां प्रयच्छन्ति, परस्परस्मै प्रयच्छन्ति] 'यमूं उपरमे' (३८६) यम्, प्रपूर्व० । वर्त० अन्ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'गमिषद्यमश्छ:' (४।२।१०६) म० →छ० । 'स्वरेभ्यः' (१।३।३०) द्वित्वम् । 'अघोषे प्रथमोऽशिटः' (१३५०) छ० → च० ।
[इमाः परस्परां परस्परस्माद् वा बिभ्यति] 'जिभीक् भये' (११३२) भी । वर्त्तः अन्ति । 'हवः शिति' (४।१।१२) "भी" द्विर्वचनु । 'इस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । 'अन्तो नो लुक' (४।२।९४) नलोपः । 'योऽनेकस्वरस्य' (२।११५६) यत्वम् ।
[इमाः परस्परां परस्परस्य वा स्मरन्ति] 'स्मृ चिन्तायाम्' (१८ ) स्मृ । वर्त्त० अन्ति । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'स्मृत्यर्थ-दयेशः' (२।२।११) इत्यनेन कर्म, पक्षे कर्मत्वाभावात् 'शेषे' (२२८१) षष्ठी परस्परस्येत्यत्र ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org