________________
अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
[किं नः प्रियोपकुम्भेन] प्रियमुपकुम्भं यस्य सः, तेन ।छ।।
सप्तम्या वा ।।३।२।४।। [उपकुम्भं निधेहि, उपकुम्भे निधेहि] 'डुधांगक धारणे च' (११३९) धा, निपूर्व० । पश्चमी हि । 'हौ दः' (४।१।३१) → ए० ।
आ०
[प्रियोपकुम्भे निधेहि] प्रियमुपकुम्भं यस्य, तस्मिन् ।।छ।।
ऋद्ध-नदी-वंश्यस्य ।।३।२।५।।
[ऋद्धनदीवंश्यस्य] ऋद्धश्च नदी च वंश्यश्च, तस्य ।
[सुमगधं वसति मगधानां शोभना ऋद्धिः = सुमगधम् ।
[सुमद्रं वसति] मद्राणां शोभना ऋद्धिः ।।
[उन्मत्तगडं देशे वसति उन्मत्ता गङ्गा यस्मिन् देशे, तस्मिन् । 'क्लीवे' (२।४।९७) ह्रस्वः । 'परतः स्त्री०' (३।२।४९) पुंवत् । 'नदीभिर्नाम्नि' (३।१।२७) अव्ययीभावः समासः । अनेन सप्तमी ङि → अम् ।
[लोहितगङ्गं वसति] लोहिता गङ्गा यस्मिन् देशे, तस्मिन् । [शनैर्गङ्ग वसति] शनैर्गङ्गा यस्मिन् देशे, तस्मिन् ।
[तूणीगङ्गं वसति] तूष्णीं गङ्गा यस्मिन् देशे, तस्मिन् । 'क्लीबे' (२।४।९७) ह्रस्वः । __ [द्वियमुनं वसति] द्वे यमुने । 'क्लीबे' (२।४।९७) ह्रस्वः, तस्मिन् । 'संख्या समाहारे' (३।१।२८) अव्ययीभावः समासः उभयत्र ।
[सप्तगोदावरं वसति] सप्तानां गोदावरीणां समाहारः । ‘संख्याया नदी-गोदावरीभ्याम्' (७।३।९१) अत्समासान्तः । 'अवर्णवर्णस्य' (७।४।६८) ईलोपः, तस्मिन् ।
[एकविंशतिभारद्वाजं वसति] एकेनाऽधिका विंशतिर्भारद्वाजा वंश्या येषु = एकविंशतिर्भारद्वाजम् । सप्तमी सुप् । अनेन सुप् → अम् । प्रथमं 'मयूरव्यंसकेत्यादयः' (३।१।११६) समासः । ततो 'वंश्येन पूर्वार्थ' (३।१।२९) अव्ययीभावः समासः । 'वसं निवासे' (९९९) वस् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् ।
[त्रिपञ्चाशद्गौतमम्] त्रिभिरधिका पञ्चाशत्, त्रिपञ्चाशद् गौतमा वंश्या येषु, तेषु । [त्रिकोशलम्] तिस्त्रः कोशला वंश्या येषु, तेषु । ‘क्लीबे' (२।४।९७) हूस्वः । [उपगङ्गे] गङ्गायाः समीपमुपगङ्गम्, तस्मिन् । [उपयमुने] यमुनायाः समीपमुपयमुनम् । 'क्लीबे' (२।४९७) ह्रस्वः, तस्मिन् ॥छ।।
अनतो लुप् ।।३।२।६।। [अनतः] न अत् = अनत् । 'अन् स्वरे' (३।२।१२९) अन्, तस्य । ऋद्धं च ।
P.
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org