SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [अधिस्त्रि] स्त्रीष्वधि = अधिस्त्रि । 'क्लीवे' (२१४९७) हूस्वः । [उपवधु] वध्वाः समीपमुपवधु । 'क्लीबे' (२।४।९७) ह्रस्वः । [उपकर्तृ] कर्तुः समीपम् । [उपकुम्भात्] कुम्भस्य समीपमुपकुम्भम्, तस्मात् । [उपकुम्भाभ्याम्] कुम्भयोः समीपमुपकुम्भे, ताभ्याम् । [उपकुम्भेभ्यः] कुम्भानां समीपमुपकुम्भानि, तेभ्यः । [उपकुम्भेन] कुम्भस्य समीपमुपकुम्भम्, तेन । [उपकुम्भे] कुम्भस्य समीपमुपकुम्भम्, तस्मिन् । [प्रियोपवधुः] प्रियं उपवधु यस्याऽसौ । [अत्युपवधुः] उपवधु अतिक्रान्तः सः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१३५३) विसर्गः ॥छ।। अव्ययस्य ॥३।२७।। [अव्ययस्य न वि 'इंण्क् गतौ' (१०७५) इ । न व्येति = न क्षयंयातीत्यव्ययम् । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प० → अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'इवर्णादे०' (१।२।२३) यत्वम् । 'नञत्' (३।२।१२५) न० → अ० । तस्य । [परमोच्चैः] परमं च तद् उच्चैश्च । सि । अनेन लुप् । [भोज भोजं व्रजति] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । अभीक्ष्णं (आभीक्ष्ण्यं) भोजनं पूर्वम् । 'ख्णम् चाऽऽभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० → अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमवादेः' (७।४।७३) द्विर्वचनम् । सि । अनेन सर्वत्र लुप् । धृज (१३०)-धृजु (१३१) - ध्वज (१३२) - ध्वजु (१३३) - ध्रज (१३४) - धजु (१३५) - वज (१३६) - 'व्रज गतौ' (१३७) व्रज् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । [ततः] तद् । तस्मात्ततः । 'किमद्व्यादिसर्वाद्यवैपुल्यबहोः पित् तस्' (७।२।८९) तस्प० । 'आ द्वेरः' (२११।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । तत्र] तद् । तस्मिन् । 'सप्तम्याः ' (७।२।९४) अपप्र० →त्र । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [कथम] किम् । केन प्रकारेण । 'कथमित्थम्' (७।२।१०३) थम्प्र० । 'किमः कस्तसादौ च' (२।१।४०) किम्० → क० । [बाहाणवत्] ब्राह्मण इव । 'स्यादेरिवे' (७।१५२) वत्प्र० । _[पचतितराम्] द्वयोर्मध्ये प्रकृष्टं पचति । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प० → तर । 'किं-त्याद्येऽव्ययादसत्त्वे तयोरन्तस्याऽऽम्' (७।३।८) अन्तस्याऽऽम् । 'वत्तस्याम्' (१1१1३४) अव्ययसंज्ञा । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy