SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयाध्यायस्य द्वितीयः पादः ।। [द्विधा] द्वाभ्यां प्रकाराभ्याम् । 'संख्याया धा' (७।२।१०४) धाप० । 'अधण्तस्वाद्या शसः' (१।१।३२) अव्ययसंज्ञा | [अतिस्वरः] स्वः । ॥ स्वर्गं अतिक्रान्ता ये ते, जस् । [अत्युच्चैसः] उच्चैरतिक्रान्ता येते, जस् ।।छ।। ऐकायें ||३।२।८।। [ऐकायें] एकोऽर्थो यस्य तत्, एकार्थस्य भावः । 'पति-राजान्तगुणाङ्ग-राजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरेप्वादे०' (७।४।१) वृद्धि: । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । [चित्रगुः] चित्रा गावो यस्याऽसौ । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वः । 'परतः स्त्री पुम्वत्०' (३।२।४९) पुंवत् । [राजपुरुषः] राज्ञः पुरुषः । [पुत्रीयति पुत्रमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । 'क्यनि' (४।३।११२) अवर्ण० → ई । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । पुत्रकाम्यति पुत्रमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) काम्यप्र० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [कुम्भकारः] कुम्भं करोतीति । 'कर्मणोऽण्' (५।१।७२) अण्प० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । [औपगवः] उपगोरपत्यम् । ‘डसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।।छ।। न नाम्येकस्वरात् खित्युत्तरपदेऽमः ।।३।२।९।। [न न प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [नाम्येकस्वरात्] नामी च एकस्वरश्च = नाम्येकस्वरम्, तस्मात् । [खिति ख् इदनुवन्धो यस्य सः = खित्, तस्मिन् । [उत्तरपदे] समा(सा)रम्भकमन्त्यं पदमुत्तरपदम्, तस्मिन् । [स्त्रींमन्यः] बुधिं (१२६२) - ‘मनिंच ज्ञाने' (१२६३) मन् । स्त्री मन्यते । [श्रियंमन्यः] श्रियं मन्यते । [भुवंमन्यः] भुवं मन्यते । [नरंमन्यः] नरं मन्यते । [रायंमन्यः] रायं मन्यते । ॐ मध्यमवृत्तौ - स्वः अतिक्रान्ताः । अत्र जसः अतिस्वःशब्दसंबंधित्वात् न लुप् । P. स्त्रियमात्मानं मन्यते । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy