SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [गांमन्यः] गां मन्यते । [नावंमन्यः] नावं मन्यते । 'कर्तुः खश्' (५/१११७) खशप्र० → अ । 'दिवादे: श्यः' (३।४।७२) श्यप्र० → य । 'लुगस्यादेत्यपदे' (२१११११३) अलोपः । [श्रियंमन्यं कुलम् श्रियं मन्यते । 'कर्तुः खश्' (५1१1११७) खश्प्र० → अ । 'खित्यनव्ययाऽरुषो मोऽन्तो हूस्वश्च' (३।२।१११) मोऽन्तः ह्रस्वत्वं च । [शंमन्यः] ज्ञ-कोविदमात्मानं मन्यते । [क्ष्ममन्यः] 'क्षमौच सहने' (१२३५) क्षम् । क्षाम्यतीति । 'अच्' (५।१।४९) अच्प्र० → अ | ‘पृषोदरादयः (३।२।१५५) उपान्त्यस्याऽस्य लोपः । 'आत्' (२।४।१८) आप्प० → आ । मामात्मानं मन्यते । 'कर्तुः खश्' (५।१।११७) खश्प० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) ह्रस्वत्वं-मकारागमश्च । [वाग्मन्यः] वाचं-वाणीमात्मानं मन्यते । ‘कर्तुः खश्' (५1१1११७) खश्प्र० → अ । [हरिणिंमन्या] हरिणीं मन्यते । [वधुंमन्या] वधूं मन्यते । ‘कर्तुः खश्' (५।१।११७) खश्प० → अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः-हस्वश्च । [स्त्रीमानी] स्त्री मन्यते । 'मन्याण्णिन्' (५।१११६) णिन्प्र० → इन् । 'णिति' (४१३५०) उपान्त्यवृद्धिः । प्र० सि । ‘इन्-हन्-पूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः ।।छ।। असत्त्वे इसे ।।३।२।१०।। [असत्त्वे] न सत्त्वं = असत्त्वम् । 'नअत्' (३।२।१२५) न० → अ०, तस्मिन् । [स्तोकान्मुक्तः-अल्पान्मुक्त:-कृच्छ्रान्मुक्त:-कतिपयान्मुक्तः] स्तोकान्मुक्तः, इत्यादिषु । 'स्तोका-ऽल्प-कृच्छ्र-कतिपयादसत्त्वे करणे' (२।२७९) पञ्चमी । 'मुच्च॒ती मोक्षणे' (१३२०) मुच् । मुच्यते स्म । -क्त-क्तवतू' (५।११७४) क्तप्र० → त । 'च-जः क-गम्' (२।१।८६) च० → क० । [अन्तिकादागतः-अभ्याशादागतः-सविधादागतः-दरादागतः-विदूरादागतः-विप्रकृष्टादागतः] अन्तिकादागत इत्यत्र 'असत्त्वारादर्थात् टा-इसि-डयम्' (२।२।१२०) इति पञ्चमी । 'क्तेनाऽसत्त्वे' (३।१।७४) तत्पुरुषः समासः । अम (३९२)द्रम (३९३)-हम्म (३९४) - मीम (३९५) - 'गम्लुं गतौ' (३९६) गम्, आप० । आगम्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'यमि-रमि-नमि-गमि०' (४।२१५५) मलोपः । [स्तोकभयम्] स्तोकादयम् । ‘पञ्चमी भयाद्यैः' (३।१।७३) तत्पुरुषः समासः । [स्तोकापेतः] स्तोकादपेता(तः) । [निःस्तोकः] निष्क्रान्तः स्तोकान्निःस्तोकः । 'प्रात्यव-परि-निरादयो गत-क्रान्त-क्रुष्ट-ग्लान-क्रान्ताद्यर्थाः प्रथमाद्यन्तैः' (३।११४७) इत्यादिना तत्पुरुषः समासः ।।छ।। ब्राह्मणाच्छंसी ।।३।२।११।। [बाह्मणाच्छंसी] ब्राहाणाद् ग्रन्थादादाय शंसति ।卐 'ग्रहादिभ्यो णिन्' (५।११५३) णिन्प्र० → इन् । 'पञ्चम्यपादाने' (२।२।६९) पञ्चमी । अनेन निपातः । P. ' 'व्रता-ऽऽभीक्ष्ण्ये' (५।११५७) णिन्प्र० । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy