Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 16
________________ ।। अहम् ।। कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।। श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ॥ ॥ अथ तृतीयाध्यायस्य द्वितीयः पाद: ॥ परस्परा-ऽन्योन्येतरेतरस्याम् स्यादेर्वाऽसि ।।३।२।१।। [परस्पराऽन्योन्येतरेतरस्याम्] परस्परं च अन्योन्यं च इतरेतरं च = परस्पराऽन्योन्येतरेतरम्, तस्य । आम्शब्दात् स्वरूपेण अर्थवत्त्वात् सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः । प्रश्लेषव्याख्याने यदा अम् स्थाप्यते तदा लिङ्गत्रयेऽपि स्यादिस्थाने अमा भाव्यम् । [स्यादेः] सिरादिर्यस्याऽसौ स्यादिस्तस्य । [अपुंसि] न पुमान् = अपुमान्, तस्मिन् । [इमे सख्यौ परस्परां भोजयतः, परस्परं भोजयतः] परश्च परश्च । अम् । अनेन आम् । 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) । भुज् । भुङ्क्ते परस्परं कर्ता, तं भुजानं सख्यौ प्रयुञ्जाते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० →इ। 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त्त० तस् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [आभिः सखीभिः परस्परां भोज्यते, परस्परेण भोज्यते] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुङ्क्ते ब्राह्मणस्तं परस्परः प्रयुक्ते । णिगप्र० । तं परस्परं भोजयन्तं सख्यः प्रयुञ्जते । पुनर्णिम् । यदा कर्तरि तृतीया तदा णिग् द्वयम् । यदा तु करणे सहार्थे वा परस्परादिपदं वर्तते तदा एको णिग् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । ‘णेरनिटि' (४।३।८३) णिग्लोपः । [इमाः सख्यः परस्परां प्रयच्छन्ति, परस्परस्मै प्रयच्छन्ति] 'यमूं उपरमे' (३८६) यम्, प्रपूर्व० । वर्त० अन्ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'गमिषद्यमश्छ:' (४।२।१०६) म० →छ० । 'स्वरेभ्यः' (१।३।३०) द्वित्वम् । 'अघोषे प्रथमोऽशिटः' (१३५०) छ० → च० । [इमाः परस्परां परस्परस्माद् वा बिभ्यति] 'जिभीक् भये' (११३२) भी । वर्त्तः अन्ति । 'हवः शिति' (४।१।१२) "भी" द्विर्वचनु । 'इस्वः' (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । 'अन्तो नो लुक' (४।२।९४) नलोपः । 'योऽनेकस्वरस्य' (२।११५६) यत्वम् । [इमाः परस्परां परस्परस्य वा स्मरन्ति] 'स्मृ चिन्तायाम्' (१८ ) स्मृ । वर्त्त० अन्ति । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'स्मृत्यर्थ-दयेशः' (२।२।११) इत्यनेन कर्म, पक्षे कर्मत्वाभावात् 'शेषे' (२२८१) षष्ठी परस्परस्येत्यत्र । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 400