Book Title: Siddh Hemchandra Vyakaranam Part 02
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

View full book text
Previous | Next

Page 16
________________ ( 8 ) चेति कुर्वन्ति । सिद्धान्ती तु कर्तो: सह विवक्षाभावे एक शेषाभावेपि क्रियाया एकत्वस्य स्वभावसिद्धतयैकामेव क्रियां प्रयुनक्ति, पराश्रितैव च व्यवस्था । स च त्वं च पचथ इत्याद्येव भवति ॥ १७॥ एकद्विबहुषु । ३ | ३ | १८ | अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तान्येकद्विबहुष्वर्थेषु यथासख्यं स्युः । स पचति । तौ पचतः । ते पचन्तीत्यादि ॥ १८ ॥ एकद्विबहुषु इति बहुवचनात् नान्यादिभिरेकादीनां यथासङ्ख्यम् ||१८|| नवाद्यानि शतृक्वसू च परस्मैपदम् | ३ | ३ | १६ | • सर्वविभक्तीनामाद्यानि नव नव वचनानि शतृक्वसू च परस्मैपदानि स्युः । ति तस्, अन्ति । सिव् थस् थ । मिव्, दस् मस् । एवं सर्वासु ॥१६॥ 1 संज्ञिनां बहुत्वात् नवन्शब्दो अगृहीतवीप्सोपि वीप्सां गमयति ननु सर्वेषां परस्मैपदसंज्ञाकथं कृता आसन्नत्वात् - क्रियातिपत्त रेव कर्तव्येति चेन्मैवम् "लृदिद्” | ३|४|६४ | सूत्रे अन्यासामपि विभक्तीनां परस्मैपदग्रहणात् । परस्मै स्वभिन्नाय पद्यते प्रयुज्यते तत्परस्मैपदम् "हितादिभिः' | ३|१|७१ । इति समासः “ परात्मभ्यां के | ३ |२| १७| इति चतुर्थ्या अलुप् एवमात्मने पद्यते इति आत्मनेपदम् । यद्यपि केवलपरस्मैपदे केवलात्मनेपदे यमन्वर्थता न घटते नथाप्युभयपदिधातुमादायान्वर्थतायाः क्षत्यभावः "ईगित” | ३ | ३६५ सूत्रे फलवत्कर्तर्यात्मनेपदम् कर्तृ भिन्ने क्रियाफलवति परस्मैपदम् । “शनानशा० | ५|२| २० | इति शतृ विहितः । “तत्र क्वान० | ५|२|२| इति क्वसु विहितः अनेन तयोः परस्मैपदसंज्ञा कृता ॥१६॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 476