________________
( 8 )
चेति कुर्वन्ति । सिद्धान्ती तु कर्तो: सह विवक्षाभावे एक शेषाभावेपि क्रियाया एकत्वस्य स्वभावसिद्धतयैकामेव क्रियां प्रयुनक्ति, पराश्रितैव च व्यवस्था । स च त्वं च पचथ इत्याद्येव भवति ॥ १७॥
एकद्विबहुषु । ३ | ३ | १८ |
अन्यादिषु यानि त्रीणि त्रीण्युक्तानि तान्येकद्विबहुष्वर्थेषु यथासख्यं स्युः । स पचति । तौ पचतः । ते पचन्तीत्यादि ॥ १८ ॥
एकद्विबहुषु इति बहुवचनात् नान्यादिभिरेकादीनां यथासङ्ख्यम् ||१८||
नवाद्यानि शतृक्वसू च परस्मैपदम् | ३ | ३ | १६ |
•
सर्वविभक्तीनामाद्यानि नव नव वचनानि शतृक्वसू च परस्मैपदानि स्युः । ति तस्, अन्ति । सिव् थस् थ । मिव्, दस् मस् । एवं सर्वासु ॥१६॥
1
संज्ञिनां बहुत्वात् नवन्शब्दो अगृहीतवीप्सोपि वीप्सां गमयति ननु सर्वेषां परस्मैपदसंज्ञाकथं कृता आसन्नत्वात् - क्रियातिपत्त रेव कर्तव्येति चेन्मैवम् "लृदिद्” | ३|४|६४ | सूत्रे अन्यासामपि विभक्तीनां परस्मैपदग्रहणात् । परस्मै स्वभिन्नाय पद्यते प्रयुज्यते तत्परस्मैपदम् "हितादिभिः' | ३|१|७१ । इति समासः “ परात्मभ्यां के | ३ |२| १७| इति चतुर्थ्या अलुप् एवमात्मने पद्यते इति आत्मनेपदम् । यद्यपि केवलपरस्मैपदे केवलात्मनेपदे यमन्वर्थता न घटते नथाप्युभयपदिधातुमादायान्वर्थतायाः क्षत्यभावः "ईगित” | ३ | ३६५ सूत्रे फलवत्कर्तर्यात्मनेपदम् कर्तृ भिन्ने क्रियाफलवति परस्मैपदम् । “शनानशा० | ५|२| २० | इति शतृ विहितः । “तत्र क्वान० | ५|२|२| इति क्वसु विहितः अनेन तयोः परस्मैपदसंज्ञा कृता ॥१६॥