________________
( 5 )
स्वे स्यावहि स्यामहि ॥३॥३॥१६॥ इमानि बचनानि क्रियातिपत्तिः स्युः ॥१६॥
क्रियाया अतिपत्तिरनिष्पत्तिः क्रियातिपत्तिः, भविष्यदर्थात् भूतार्थाच्च धातोः क्रियाया अनभिनिवृत्ती मत्यां "सप्तम्यर्थे क्रियातिपत्ती क्रियातिपत्तिः ।५।४।६। सूत्रेण कियात्तिपत्तिविधीयते इति क्रियातिपत्त्यर्थे विधानादन्वर्थसंज्ञेयम् ॥१६॥
त्रीणि त्रीण्यन्ययुष्मदस्मदि ।३।३।१४। सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि अयस्मिन्नर्थे युष्मदर्थेऽस्मदर्थे च वाच्ये यथाक्रमं स्युः । स पचति । तौ पचतः, ते पचन्ति । पचते । पचेते। पचन्ते । त्वं पचसि । युवां पचथः । यूयं पचथ । पचसे। पचेथे। पचध्वे । अहं पचामि । आवां पचावः । वयं पचामः । पचे । पचावहे । पचामहे । एवं सर्वासु द्वययोगे त्रययोगे च पराश्रयमेव वचनम् । स च त्वं च पचथः । स च त्वं चाहं च पचामः ॥१७॥
__ अन्यस्मिन्नर्थे इति–नत्वन्यत्वं केवलान्वयि स्वेतरापेक्षया सर्वस्यान्यत्वादिति युष्मदस्मदर्थयोरप्यन्यत्वं भवतीति चेत्सत्यम् युष्मदस्मदोः समीपोपस्थितेः “उपस्थितं परित्यज्यानुपस्थितकल्पने मानाभाव" इति न्यायादन्यत्वं युष्मदस्मदपेक्षं ग्राह्यम् । न चास्मच्छब्दातिरिक्त सर्वत्र युष्मच्छब्दस्य प्रयोगात् सर्वस्य पदार्थस्य युष्मदर्थत्वमिति युष्मच्छब्दोऽप्यव्यावर्तक इति वाच्यम् युष्मच्छब्दविशेषितार्थो युष्मदर्थ इति । अतएव भवच्छब्देनोच्यमानो न युष्मदर्थ अपि त्वस्मदर्थ एव तेन भवान् पचतीत्येव प्रयोगो न तु भवान् पचसीति । पराश्रयमेवेति-परत्वं सर्वादिपाठापेक्षया बोध्यम् । केचित्तु यत्न सहोक्तिर्नास्ति तत्रैकशेषाभावात् प्रत्येक क्रिया सं च त्वं पचति च पचसि चेति, स च त्वं चाहं च पचति च पचसि च पचामि