________________
( १० )
पराणि कानानशौ चात्मनेपदम् ।३।३।२०। सर्वविभक्तीनां नव नव वचनानि कानानशौ चात्मनेपदानि स्युः। ते, आते, अन्ते । से, आथे, ध्वे । ए, वहे, महे । एवं सर्वासु ॥२०॥
... "तत्र क्वसुः" ।५।२।२। सूत्रादेव कानो विहितः “शत्रा." ।५।२।२०। इति विहितः आनश् एतयोरनेनात्मनेपदसंज्ञा ॥२०॥
तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलाश्व ॥३॥३॥२१॥ तदात्मनेपदं कृत्यक्तखलाश्च प्रत्ययाः सकर्मकाद् धातोः कर्मणि अकर्मकादविवक्षितकर्मकाच्च भावे स्युः । क्रियते कटश्चत्रेण । चक्राणः । क्रियमाणः । भूयते त्वया । भूयमानम् । क्रियते । मृदु पच्यते । कार्यः । कर्तव्यंः । करणीयः । देयः कृत्यः कटस्त्वया । शयितयम् । शयनीयम् । शेयम् । कार्यम् । कर्तव्यम् । करणीयम् । देयम् । कृत्यम् ।त्वया कृतः कटः । शयितम् । कृतं त्वया । सुकरः कटस्त्वया। सुशयं सुकरं त्वया । सुक्टंकराणि वीरणानि । ईषदाढ्यम्भवं भवता । सुज्ञानं तत्त्वं मुनिना । सुग्लानं दोनेन । मास आस्यते । मासमास्यते ॥२१॥
साप्यानान्यादिति-आप्यं कर्मकारकम् आप्तिविषयमाय्यम् आप्तिसम्बन्धः, स च कर्तृ व्यापारद्वारकफलाश्रयत्वरूपः, आप्यशब्दस्य तादशसम्बन्धाश्रये योगरुढिः, आप्येन सह वर्तते इति साप्यम्, साप्यः सकर्मकः । न विद्यते विवक्ष्यतेवाऽऽप्यं यस्मिन् सोऽनाप्योऽविद्यमानकर्मकोऽविवक्षितकर्मकश्च । फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वम्, फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम् । क्रियते कटश्चत्रणेति. उत्पादना करोतेरर्थः, सा चोत्क्त्यनुकूलव्यापारः। मृदु पच्यते-मृदु इति क्रियाविशेषणम्, न तु पच्यमानद्रव्योपस्थापकम् । पचतिः विक्लित्त्यनुकूल