________________
( ११ )
व्यापारवाचकः, विक्लितिश्च कर्मस्था इति फलव्यधिकरणवाचकत्वेन सकर्मकत्वेऽपि अविवक्षितकर्मत्वेनाकर्मकत्वम् तेन भावे प्रयोगः कतु योग्यः इत्यर्थे ध्यण्-तव्य-अनीयप्रत्ययाः ज्ञेयाः क्यप्प्रत्यये कृत्यः । भावे लिङ्गसङ्ख्याभावेऽपि सामान्ये नपुंसकमिति सिद्धान्तात् औत्सगिकं क्लीबत्वमेकवचनं च भवति । सुकरः कटस्त्वया -- सकर्मकत्वेन कर्मणि खल् । सकर्मकत्वसूचनाय 'कट' इति पदमुपात्तम् । सुकटंकराणि वीरणानि कट भिन्नानि वीरणानि कटस्वरूपाणि सुखेन क्रियन्ते इत्यर्थः । अनाढयेन भवता सुखेनाद्येन भूयते इतीषदाढ्य भवं भवता । सुखेन ज्ञायते इति "शासूयुधि ० | ५|३ | १४१ । इति कर्मणि अने, सुज्ञानं तत्त्वं मुनिना । 'शासू० ' ।५।३।१४१। सूत्रेण भावेऽनप्रत्यये तु सुग्लानं दीनेनेति । मास आस्यते इति“ कालाध्वभा० | २|२|२३| सूत्रेणाकर्मकाणां धातूनां प्रयोगे कालादिः आधारः कर्मसंज्ञो वा भवति । अकर्म च ---यत्रापि पक्षे कर्मसंज्ञा तत्राकर्मसंज्ञापि वा भवतीत्यावेदितम् उभयसंज्ञा, विधानाच्च प्रकृतप्रयोगे अकर्मकत्वमाश्रित्य "आस्यते” इति भावे आत्मनेपदम्, सकर्मकत्वमाश्रित्य मासस्य कर्मत्वाद् आत्मनेपदेन तस्यानभिधा नाद् 'मासम्' इति कर्मणि द्वितीया भवति । अकर्मसंज्ञा यदि न स्यात् तदा भावे आत्मनेपदं न स्यात् सकर्मकत्वात्कर्मणि आत्मनेपदे तु तेनैवाभिहितत्वात्कर्मणि द्वितीया न
भवेत् ॥२१॥
इङितः कर्तरि |३|३|२२|
इंदितो ङितश्च धातोः कर्तर्यात्मनेपदं स्यात् । एधते । एधमानः । शेते । शयानः ॥ २२ ॥
एभ्य एव कर्तरीति नियमार्थं वचनम् । एभ्य कर्तयैवात्मनेपदमिति नियमस्तु न शक्यते ' तत्साप्या० | ३ | ३ | २१ | इति सूत्रेण भावकर्मणोरेभ्य आत्मनेपदस्येष्टत्वात्तद्बाधापत्तेः । एभ्य कर्तर्यात्मनेपदमेवेत्यपि न नियन्तु ं शक्यते 'इडित्तो व्यञ्जना० | ५ | २|४४ । इत्यनेन विहितस्यानस्य बाधापत्तेः ॥२२॥