________________
( १२ )
क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसो हवहश्वानन्योऽनयार्थे ।३।३।२३॥ अन्यचिकीर्षितायाः क्रियाया अन्येन हरणं करणं क्रियाव्यतिहारः तदर्थाद् गतिहिंसाशब्दार्थहस्वर्जाद्धातोह वहिभ्यां च कर्तर्यात्मनेपदं स्यात् । न त्वन्योन्येतरेतरपरस्परशब्दयोगे। व्यतिलुनते । व्यतिहरन्ते । व्यतिवहन्ते भारम् । क्रियेति किम् ? द्रव्यव्यतिहारे मा भूत् । चैदस्य धान्यं व्यतिलुनन्ति । गत्यादिवर्जनं किम् ? व्यतिसर्पन्ति । व्यतिहिंसन्ति । व्यतिजल्पन्ति । व्यतिहसन्ति । अनन्योऽन्यार्थ इति किम् ? परस्परस्य व्यतिलुनन्ति । कर्तरीत्येव । तेन भावकर्मणोः पूर्वेणैव गत्यर्थादिभ्योपि स्यात् । व्यतिगम्यन्ते ग्रामाः ॥२३॥
क्रियाव्यतिहारे अनेकार्थत्वाद् धातूनां हरणमित्यस्य करणव्यर्थः। यदाऽन्येन कर्तव्यां क्रियामन्यः करोति, तत्कर्तव्यों चेतरक्तदा क्रियाया व्यतिहारः विनिमय इत्यर्थः । हृवहश्चेति-हृवहोर्गतिहिंसार्थत्वात्प्रतिषेधे प्राप्ते प्रतिप्रसवार्थमुपादानम् । अयमाश्यः हरणस्य सामान्यतो हिंसाभिन्नत्वेपि उपसर्गसहितस्य प्राणहरणानुकूलत्यापारे वृत्तौ हिंसार्थत्वमक्त्येव, प्रापणमपि स्थानान्तरस्थितस्य स्थानान्तरस्थानमित्युत्तरदेशसंयोगानुकूलव्यापार एव गतिरिति भवत्युभयोः क्रमशः हिंसार्थत्वं गत्यर्थत्वं चेति निषेधस्य प्राप्तिरस्तीति तस्य प्रतिप्रसवार्थं पृथगुपादानम् । केचित्तु सूत्रेऽर्थग्रहणात् शब्दान्तरनिरपेक्षा ये गत्याद्यर्थबोधकारते एव तदर्थत्वेन गृह्यन्ते, हरतेरुपसर्गवशेन हिंसार्थत्वमिति न शब्दान्तरनिरपेक्षं हिंसार्थत्वम्, प्रापणमपि न साक्षाद् गतिरपि तु आर्थिकार्थरूपा गतिरिति हृवहोः प्रतिषेधस्य न प्राप्तिरिति व्यर्थमेवानयोः पृथगुपादानमित्याहुः । चैत्रस्य धान्यं व्यतिलुनन्ति इति अत्र लुनातिर्न छेदने वर्ततेऽपि तु उपसंग्रहात्मके स्वीकारस्वभावे लवने छेदने वर्तते, चैत्रेण यत्स्वायत्तीकृतं धान्यं छेदनेन स्वीकुर्वन्तीत्यर्थः अत्र द्रव्यस्य विनिमयो गम्यते । पूर्वेणवेति-"तत्साप्योनाप्यात् ।३।२।२१। इति सूत्रेणैति भावः ।२३।।