________________
( १३ )
निविशः | ३ | ३|२४|
विशः कर्तर्यात्मनेपदं स्यात् । निविशते ।
विशत् प्रवेशने तुदादिधातुः ।
उपसर्गादस्योहो वा | ३ | ३ |२५|
उपसर्गात्पराभ्यामस्य त्यहिभ्यां कर्तर्यात्मनेपदं वा स्यात् । विपर्य स्यति । समूहते । समूहति ।
अस्यतेरप्राप्ते ऊहतेश्चेदित्त्वान्नित्यमात्मनेपदे प्राप्ते विभाषे - यम् । अस्येति श्यनिर्देशात् 'असूच् क्षेपणे' इति दिवादिर्गृह्यते 'असक भुवि इत्यदादिः 'असी गतिदीप्त्यादानेषुः इति भ्वादिश्च न गृह्यते ।
उत्स्वराद्य जेरयज्ञतंत्पात्रे | ३ | ३ |२५|
उदः स्वरान्ताच्चोपसर्गात्पराद् युनक्तः कर्तर्यात्मनेपदं स्यात् न चेद्यज्ञे यत्तत्पात्रं तद्विषयो युज्यर्थः स्यात् । उयुङ्क्ते । उपयुङ्क्ते । उत्स्वरादिति किम् ? संयुनक्ति । अयज्ञसत्पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ॥ २५ ॥
युजेरिति सामान्यनिर्देशेऽपि 'युपी योगे इति रुधादिर्धातुर्गृह्यते न तु युजिच् समाधौ इति दैवादिकः अस्येदित्त्वादात्मनेपदं सिद्धमेवास्ति । युपी योगेऽस्य ईदित्त्वात् फलवत्कर्तर्यात्मनेपदे सिद्धेऽप्यफलवति कर्तर्यात्मने पदसिद्ध्यर्थमिदं सूत्रं कृतम् । एवमग्रिमसृतमपि ज्ञेयम् । उदयुङ्क्ते इत्यत्र “श्नास्त्योर्लु' क् ।४।२ । ६० । इत्यनेन श्नसम्बन्धिनोऽकारस्य लुग्भवति ।।२५।।