________________
( १४ )
परित्यवात्क्रियः ।३।३।६। एभ्य उपसर्गेभ्यत्पराक्रोणातेः कर्तर्यात्मनेपदं स्यात् । परिक्रीणीते । विक्रीणीते । अवक्रोणीते । उपसर्गादित्येव-उपरिक्रीणाति ॥२६॥
__. 'क्री' इत्यनुकरणमनुकार्येणार्थनार्थवदिति नामत्वे संति ततः . स्यादि: ‘प्रकृतिवदनुकरणम्' इति न्यायाच्च धातुकार्यमियादेशः । एष एव एतन्यायस्य ज्ञापक: । परिक्रीणीत्यत्र “एषामीळञ्जनेऽद: ।४।२।६७। इतीकारः ॥२६॥
परावर्जः ।३।३।२८॥
आभ्यां पराज्जयतेः कर्तर्यात्मनेपदं स्यात् । पराजयते । विजयते । उपसर्गाभ्यामित्येव बहुवि जयति वनम् ॥२६॥
. जियः इत्यकृत्वा जे: करण "प्रकृतिवदनुकरणमिति न्यायस्यानित्यता पक्षेनैव । बहुवीति-बहवो वयः पक्षिणो यत्र वने तद् बहुवि । वनम्, तादृशं वनं जयतीत्यर्थः ॥२८॥
समः क्ष्णोः ।३।३।।
.
समः परात् क्ष्णौतेः कर्तर्यात्मनेपदं स्यात् । संक्ष्णुते शस्त्रम् । सम इति किम् ? क्ष्णौति । उपसर्गादित्येव-आयसं क्ष्णौति ॥२६॥
___अत्रापि क्ष्णोरिति निर्देशः 'प्रकृतिवदनुकरणम्' इति न्यायस्यानित्यतापक्षे एव, अन्यथा धातुत्वादुवादेशे 'क्ष्णुवः' इति प्रयोगः स्यात् । ननु 'समो गमृच्छिपृच्छि० ।३।३।८४। इत्यत्र क्ष्णुग्रहणं क्रियतां किमत्र . पृथगारम्भेण, नैव ‘समो गमृच्छि०' इत्यत्र कर्मण्यसति आत्मनेपदविधिः, इह तु संक्ष्णुते शस्त्रम् इति सकर्मणोऽपि भवतीति पृथवसूत्रारम्भः- ॥२६।।