________________
( १५ )
0
अपस्किरः ॥३॥३॥३०॥ अपाकिरतेः सस्स्ट्कात्कर्तर्यात्मनेपदं स्यात् । अपस्किरते वृषभो हृष्टः । सस्सनिर्देशः किम् ? अपस्किरति । अपैति किम् ? उपस्किरति ॥३०॥
__ अपस्किरते इत्यत्र 'अपाच्चतुष्पात्पक्षि०।४।४।६६॥ इति स्सट । वृषभो हृष्ट इति हृषच तुष्टाविति विस्मयार्थो विवक्ष्यते ततो "हषेः . केस० ४।४७६। इतीविकल्पः ॥३०॥
-
उदश्वरः साप्यात् ।३।३॥३१॥ उत्पूर्वाच्चरेः सकर्मवात्कर्तरि आत्मनेपदं स्यात् । मार्गमुच्चरते । साप्यादिति किम् ? धूम उच्चरति ॥३१॥
मार्गमुच्चरते इति व्युत्क्रम्य गच्छतीत्यर्थः । व्युत्क्रमणं च . बिपरीताचरणमुल्चनम् वा। धूम उच्चरति--ऊर्ध्वं गच्छतीत्यर्थः ॥३१॥
समस्तृतीयया ।३।३।३ । सम्पूर्वाच्चरेस्तृतीयान्तेन योगे कर्तर्यात्मनेपदं स्यात् । अश्वेन . सञ्चरते । तृतीयेति किम् ? उभौ लौको सञ्चरसि ॥३२॥
. धातोस्तृतीयया योगाभावादाह--तृतीयान्तेनेति । उभौ लोकाविति--मनुष्यस्वर्गलोकावित्यर्थः ॥३२॥
क्रीडोऽकूजने ॥३॥३॥३३॥
कूजनमव्यक्तः शब्दस्ततोऽन्यार्थात्संपूति क्रीडतेः कर्तर्यात्मनेपदं