SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ( १६ ) स्यात् । संक्रीडते । सम इत्येव । क्रीडति । अकूजन इति किम् ? संक्रीडन्त्यनांसि ॥ ३३॥ संक्रीडते = रमते इत्यर्थः । संक्रीडन्त्यनांसि - अव्यक्त शब्द कुर्वन्तीत्यर्थः ॥३३॥ अन्वाङ्परेः ।३।३।३४। एभ्यः परात्क्रीडतेः कर्तर्यात्मनेपदं स्यात् । अनुक्रीडते । आक्रोते । परिक्रीडते ॥ ३४॥ क्री विहारे भ्वादि: ॥ ३४॥ शप उपलम्भने | ३ | ३|३५| उपलम्भनं प्रकाशनं शपथो वा तदर्थाच्छपतेः कर्तर्यात्मनेपदं स्यात् । मैत्राय शपते । उपलम्भन इति विम् ? मैत्रं शपति ॥ ३५ ॥ मैत्राय शपते - मैत्रं कञ्चिदर्थं बोधयतीत्यर्थः अथवा स्वाभिप्रायस्य परत्राविष्करणमुपलम्भनं शपथ इति यावत् । तत्पक्षे मैत्राय शपते इत्यस्य वाचा मात्रादिशरीरस्पर्शनेन मैत्रं स्वाभिप्रायं बोधयतीत्यर्थः । मैवं शपति = आक्रोशतीत्यर्थः ||३५|| आशिषि नाथः | ३ | ३ | ३६ | आशीरर्थादेव नाथेः कर्तर्यात्मनेपदं स्यात् । सर्पिषो नाथते । आशिषीति किम् ? मधु नाथति ॥ ३६ ॥ सर्पिषो नाथते - सर्पिमें भयादित्याशास्ते इत्यर्थः । आशिष्येवेति
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy