________________
( १७ )
नियमाद् याञ्चायां मधु नाथतीत्यत्रात्मनेपदं न भवति । नन्वेवमाशिष्यनेनात्मनेपदविधानेऽन्यत्त्रार्थे च नियम सामर्थ्यादात्मनेपदाप्रवृत्तौ "नाथूङ” इति द्विशिष्टः पाठो व्यर्थ इति चेत्सत्यम् ङित्करणम् "इङितो व्यञ्जनाद्यन्तात् ।५।२।४४। सूत्रेणानप्रत्ययार्थम् । नन्वेवं भारविकविकृते किरा - तार्जुनीये मायाशुकरशरी रघातिबाणमुद्दिश्य कपटकिरान्त शिवदूतस्यार्जुनं प्रति "नाथसे किमु पति न भूभृताम्" इति वाक्ये कथमात्मनेपदप्रयोग इति चेत्र प्रामाणिकः नाथसि इत्येव प्रयोग उचितः यद्वा “निरङ्क ुशाः aar: " इति शरणम् ||३६||
भुनछोऽत्रा | ३ | ३|३७|
पालनादन्यार्थाद् भुनक्तः कर्तर्यात्मनेपदं स्यात् । ओदनं भुङक्त भुनज इति किम् ? ओष्ठौ निर्भुजति । अत्राण इति किम् ? पृथ्वीं भुनक्ति ॥ ३७॥
'भुनज्' इति श्नेन निर्देशात् "भुजोंत् कौटिल्ये" इत्यस्मादात्मनेपदं न भवति यथा ओष्ठौ निर्भु जति कुटिलयतीत्यर्थः ॥ ३७॥
हो गतताच्छील्ये | ३ | ३ |३८|
गतं सादृश्यं हृगो गतताच्छील्यार्थात् कर्तर्यात्मनेपदं स्यात् । पैतृकमश्वा अनुहरन्ते । गत इति किम् ? पितुर्हरति चोरयतीत्यर्थः । ताच्छील्यादिति किम् ? नटो राममनुहरति ॥ ३८ ॥
गतं प्रकारः सादृश्य मनुकरणमित्येकार्थाः तच्छीलं स्वभावो यस् स तच्छीलस्तस्य भावः ताच्छील्यम, उत्पत्तेः प्रभृत्याविनाशात् स्वभावता । कमवा अनुहरन्ते - पितुरागतं गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलयन्तीत्यर्थः 'ऋतः इण् । ६।३।१५२। इतीकण् 'ऋवर्णो० |७|४|७१। इतीतो लुक् । शब्दशक्तिस्वाभावाच्चानुपूर्व एव हरतिः गत्