________________
( १८ )
ताच्छील्ये वर्तते । नटो राममनुहरतीति-नटो हि कञ्चिदेव कालं राममनुकरोतीति असातत्ये न भवति नटो नाट्यावसरे एव रामभूमिकां प्राप्य तदीयं सादृश्यमनुकरोति अन्यदा तु स स्वभावे एव तिष्ठतीति न स्वभावतेति साच्छील्या भावान्नात्मनेपदम् ।।३।।
पूजाचार्यभृत्युत्क्षेपज्ञानविगणनव्यखे नियः ।३।३।३६।।
पूजादिषु गम्येषु नियः कर्तर्यात्मनेपदं स्यात् । माणवक मुपनयते । कर्मकरानुपनयते । शिशुमुदानयते । नयते तत्त्वार्थे । मद्रा कारं विनयन्ते । शतं विनयन्ते। एष्विति किम् ? अजां नयति ग्राम ॥३६॥
पूजा=सन्मानः, नयते विद्वान् स्याद्वादे-जीवादीन् पदार्थान् यक्तिभिः स्थिरीकृत्य शिष्यं बोधयतीत्यर्थः । ते यूक्तिभि: स्थिरीकृताः पूजिता भवन्ति । आचार्यस्य भावः कर्म वा आचार्यकम् , योपान्त्याद्" ७१७२। इत्यका । माणवकमुपनयते स्वयमाचार्यो भवन् माणवक (मनोरपत्यं माणवः अल्पार्थे ( बालकेऽर्थे ) णत्वम्, माणवः एव माणवकः स्वार्थे कः ) बटुशिष्यमध्ययनायाऽऽत्मसमीपं नयतीत्यर्थः । शीष्योऽधीते तमात्मसमीपं नीत्वाऽध्यापनेन स्वस्मिन्नाचार्य कमुत्पादयतीत्यर्थः । भतिः वेतनम् भ्रियन्तेऽनया कर्मकरा इति भृति: पारिश्रमिकरूपेण दीयमानं द्रव्यं वेतनशब्देनोच्यते । कर्मकरानुपनयते-वेतनेन कर्मकरान् आत्मनः कर्मणि नियुक्त इत्यर्थः। उत्क्षेपः ऊर्ध्वं गमनम् । शिशुमुदानयतेउत्क्षिपतीत्यर्थः । ज्ञानं प्रमेयनिश्चयः ज्ञानस्य यथार्थायथार्थभेदेन द्वैविध्यान प्रकृते यथार्थज्ञानस्य निश्चयरूपस्यैव ग्रहणमिति प्रमेयस्य प्रमाविषयीकर्तृ मभिलषितस्य वस्तूनो निश्चयः सन्देहराहित्येनाधिगतिनिशब्देन गृह्यते । नयते तत्त्वार्थे तत्त्वार्थविषयं जिज्ञासितवस्तु प्रमाणेन यथार्थतया प्रतिपाद्यते इत्यर्थः । विगणनम्--ऋणादेः शोधनम्, ऋण त्तमायावश्यं प्रत्यर्पणीयं द्रव्यम्, आदिशब्देन तादृशमेवावश्यदेयं वस्तु गृह्यते तस्य शोधनं प्रत्यर्पणमित्यर्थः । मद्राः कारं विनयन्ते-मद्रा मद्रदेशोद्भवा जनाः कारं राज्ञे देयं तत्तद्वस्तुषु प्रतिनियतं राज्ञा ग्राह्य षष्ठांशादिकं दानेन शोधयतीत्यर्थः । व्ययः धर्मादिषु विनियोगः, शतं विनयते: