SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ - ( १६ ) शतेन परिच्छिन्नं द्रव्यं धर्माद्यर्थं तीर्थादिषु ददातीत्यर्थः। नियः गित्त्वादफलवदर्थोऽयमारम्भः । अजां नयति ग्राममिति-नयतेढिकर्मकत्वेनाजाया ग्रामस्य च कर्मसंज्ञा तत्राजा मुख्यं कर्म ग्रामो गौणं कर्म ॥३६।। कर्तृस्थामूर्ताप्यात् ।३॥३॥४०॥ कर्तृस्थममूर्त कर्म यस्य तस्मानियः कर्तर्यात्मनेपदं स्यात् । श्रमं विनयते । कर्तृस्थेति किम् ? चैत्रो मैत्रस्य मन्यु विनयति । अमूतेति किम् ? गड्डु विनयति । आप्येति किम् ? बुद्धया विनयति ॥४०॥ श्रमं विनयते-शमयतीत्यर्थः । गडुविनयति-गडुः क्वचिच्छरीरकदेशे मांसग्रन्थ्यादिः तस्य मर्तत्त्वान्न भवत्यात्मनेपदम् । बद्ध्या विनयति-बुद्धिहेतुकं विनयं प्राप्नोतीत्यर्थः अत्राविवक्षितकर्मत्वेन धात्वर्थोपसंगृहीतकर्मत्वेन वाऽकर्मकत्वमिति न कर्मणः प्रयोगस्याऽऽवश्यकतेति कर्तृस्थामूर्तकर्मकत्वाभावादव न भवत्यात्मनेपदम् ॥४०॥ शदेः शिति ॥३॥३॥४१॥ शिद्विषयाच्छदः कर्तर्यात्मनेपदं स्यात् । शीयते । शितीति किम् ? शत्स्यति ॥४१॥ . शलु शातने । इत्यस्माद् वर्तमानातेप्रत्यये शवि शदे: स्थाने "श्रौतिः" ।४।२।१०८। इति शीयादेशे शीयते इति रूपम् ॥४१॥ नियतेरद्यतन्याशिषि च ॥३॥३॥४॥ अतोऽद्यतन्याशीविषयाच्छिद्विषयाच्च कर्तर्यात्मनेपदं स्यात् । अमृत । मृषीष्ट । म्रियते । अद्यतन्याशिषि चेति किम् ? ममार ॥४२॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy