Book Title: Shraddhvidhi Kaumudi
Author(s): Vairagyarativjay
Publisher: Pravachan Prakashan

Previous | Next

Page 252
________________ षष्ठः प्रकाशः २२९ ___ चैत्ये च निष्पन्ने शीघ्रमेव प्रतिमा स्थापयेत् । यदाह श्रीहरिभद्र सूरिः जिनभवने जिनबिम्बं, कारयितव्यं द्रुतं तु बुद्धिमता । साधिष्ठानं ह्येवं तद् भवनं वृद्धिमद्भवति ॥ (षोडशक-७-१) चैत्ये च कुण्डिकाकलशौरसप्रदीपादिसर्वाङ्गीणोपस्करकारणं, यथाशक्ति कोश-देवदाय-वाटिकादियुक्तिकरणं च । राजादेस्तु विधापयितुः प्रचुरतरकोशग्रामगोकुलादिप्रदानम् । अत्र देवाधिदेवप्रतिमोदायननृपादिसम्बन्धः । एवं देवदायकरणे हि विशिष्टपूजाद्यविच्छित्तियथाविलोक्यमानचैत्यादिसमारचनदक्षादिसुयुक्तिः । तदुक्तम् जो जिणवराण भवणं, कुणइ जहासत्ति विहवसंजुत्तं । सो पावइ परमसुहं, सुरगणअभिनंदिओ सुइरं ॥ द्वारं ५। तथैवं प्रतिमा अर्हद्बिम्बानि मणिस्वर्णादिधातुचन्दनादिदारुदन्तशिलामृदादिमय्यो धनुःपञ्चशत्यादिमाना यावदङ्गुष्ठमाना यथाशक्ति विधाप्याः । यतः सन्मृत्तिकामलशिलातलदन्तरौप्यसौवर्णरत्नमणिचन्दनचारुबिम्बम् । - कुर्वन्ति जैनमिह.ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥ . दारिदं दोहग्गं, कुजाइकुसरीरकुगईकुमईओ। ... अवमाणरोगसोगा, न हुंति जिणबिंबकारीणं ॥ प्रतिमाश्चं वास्तुशास्त्रोक्तविधिनिष्पन्नाः सुलक्षणाश्चात्राप्यभ्युदयादिगुणहेतुः । यत: अन्यायद्रव्यनिष्पन्ना, परवास्तुदलोद्भवा । हीनाधिकाङ्गी प्रतिमा, स्वपरोन्नतिनाशिनी ॥ मुहनक्कनयणनाही, कडिभंगे मूलनायगं चयह। आहरणवत्थपरिगरचिधाउह भंगिपूइज्जा ॥

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346