________________
षष्ठः प्रकाशः
२२९ ___ चैत्ये च निष्पन्ने शीघ्रमेव प्रतिमा स्थापयेत् । यदाह श्रीहरिभद्र
सूरिः
जिनभवने जिनबिम्बं, कारयितव्यं द्रुतं तु बुद्धिमता ।
साधिष्ठानं ह्येवं तद् भवनं वृद्धिमद्भवति ॥ (षोडशक-७-१) चैत्ये च कुण्डिकाकलशौरसप्रदीपादिसर्वाङ्गीणोपस्करकारणं, यथाशक्ति कोश-देवदाय-वाटिकादियुक्तिकरणं च । राजादेस्तु विधापयितुः प्रचुरतरकोशग्रामगोकुलादिप्रदानम् ।
अत्र देवाधिदेवप्रतिमोदायननृपादिसम्बन्धः । एवं देवदायकरणे हि विशिष्टपूजाद्यविच्छित्तियथाविलोक्यमानचैत्यादिसमारचनदक्षादिसुयुक्तिः । तदुक्तम्
जो जिणवराण भवणं, कुणइ जहासत्ति विहवसंजुत्तं ।
सो पावइ परमसुहं, सुरगणअभिनंदिओ सुइरं ॥ द्वारं ५। तथैवं प्रतिमा अर्हद्बिम्बानि मणिस्वर्णादिधातुचन्दनादिदारुदन्तशिलामृदादिमय्यो धनुःपञ्चशत्यादिमाना यावदङ्गुष्ठमाना यथाशक्ति विधाप्याः । यतः
सन्मृत्तिकामलशिलातलदन्तरौप्यसौवर्णरत्नमणिचन्दनचारुबिम्बम् । - कुर्वन्ति जैनमिह.ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥
. दारिदं दोहग्गं, कुजाइकुसरीरकुगईकुमईओ। ... अवमाणरोगसोगा, न हुंति जिणबिंबकारीणं ॥
प्रतिमाश्चं वास्तुशास्त्रोक्तविधिनिष्पन्नाः सुलक्षणाश्चात्राप्यभ्युदयादिगुणहेतुः । यत:
अन्यायद्रव्यनिष्पन्ना, परवास्तुदलोद्भवा । हीनाधिकाङ्गी प्रतिमा, स्वपरोन्नतिनाशिनी ॥ मुहनक्कनयणनाही, कडिभंगे मूलनायगं चयह। आहरणवत्थपरिगरचिधाउह भंगिपूइज्जा ॥