________________
२२८
श्राद्धविधिकौमुदीसक्षेपः कट्ठाई वि दलं इह, सुद्धं जं देवयादुववणाओ। णो अविहिणोवणीअं, सयं च काराविअं जं नो ॥ कम्मकरा य वराया, अहिगेण दढं उवेंति परिओसं ।
तुट्टा य तत्थ कम्म, तत्तो अहिगं पकुव्वंति ॥ चैत्यार्चादिविधापने च भावशुद्ध्यै गुरुसङ्घसमक्षमेवं वाच्यम् । यदत्राऽविधिना किञ्चित्परवित्तमागतं तत्पुण्यं तस्य भूयात् । यदुक्तं षोडशके
यद्यस्य सत्कमनुचितमिह वित्तं तस्य तज्जमिह पुण्यम् । ..
भवतु शुभाशयकरणादित्येतद् भावशुद्धं स्यात् ॥ न च भूखनन-पूरण-दलपाटकानयन-शिलादिघटन-चयनादिमहारम्भदोषश्चैत्यादिकरणे आशङ्क्यो, यतनाप्रवृत्तत्वेन निर्दोषत्वान्नानाप्रतिमास्थापन-पूजन-सङ्घसमागम-धर्मदेशनाकरण-दर्शनव्रतादिप्रतिपत्ति-शासनप्रभावनानुमोदनाद्यनन्तपुण्यहेतुत्वेन शुभोदर्कत्वाच्च । यदाहुः--
जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स ।
सा होइ निज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥' द्रव्यस्तवे कूपदृष्टान्तादि प्रागुक्तम् । जीर्णोद्धारे त्वेवं विशिष्योपकम्यम् । यतः
नवीनजिनगेहस्य, विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारेण जायते ॥ जीर्णे समुद्भुते यावत्तावत्पुण्यं न नूतने । उपमर्दो महांस्तत्र, स्वचैत्यख्यातिधीरपि ॥ तथा-राया अमच्चसिट्ठी, कोटुंबीए वि देसणं काउं । जिण्णे पुव्वाययणे, जिणकप्पियावि कारवइ ॥ जिणभवणाई जे उद्धरंति भत्तीइ सडिअपडिआई। .. ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ॥