________________
२२७
षष्ठः प्रकाशः
तथा मित्रं सर्वत्र विश्वास्यतया साहाय्यादिकृत् । आदिशब्दाद्वणिक्पुत्रसहायकर्मकराद्यपि त्रिवर्गहेतुतयोचितमेव विधेयम् । तच्चोत्तमप्रकृति-साधर्मिकत्व-धैर्यगाम्भीर्य-चातुर्य-सबुद्ध्यादिगुणम् । एतद् दृष्टान्तादि तु. व्यवहारशुद्धौ प्रागुक्तं द्वारम् ४। इति चतुर्दशगाथार्थः ।
चेइअ-पडिम-पइट्टा, सुआइपव्वावणा य पयठवणा । 'पुत्थयलेहणवायणपोसहसालाइकारवणं ॥१५॥ तथा चैत्यम्=उच्चैस्तोरणशिखरमण्डपादिमण्डितं भरतचक्रयादिवन्मणिस्वर्णादिमयं विशिष्टपाषाणादिमयं वा प्रासादं विशिष्टकाष्ठेष्टिकादिमयं देवालयं वा, तदशक्तौ. तृणकुट्याद्यपि न्यायार्जितवित्तेन विधिना विधापयेत् । यतः
न्यायार्जितवित्तेशो, मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याधिकारीति ॥ पाएणऽणंतदेउलजिणपडिमा कारिआ उ जीवेण । असमंजसवित्तीए, न हु सिद्धो दसणलवो वि ॥ भवणं जिणस्स न कयं, न य बिंबं नेव पूइआ साहू। दुद्धरवयं न धरियं, जम्मो परिहारिओ तेहि ॥.. यस्तृणमयीमपि कुटी, कुर्याद्दद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः, पुण्योन्मानं कुतस्तस्य ॥
किं पुनरुपचितदृढघनशिलासमुद्घातघटितजिनभवनम् । ... ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः ॥
चैत्यविधापनविधिश्च शुद्धभूमिदलभृतकाद्यवञ्चनसूत्रधारसन्माननादिः प्रागुक्तो गृहवत्सर्वोऽपि यथोचितं सविशेषो ज्ञेयः । यत:
धम्मत्थमुज्जएणं, कस्स वि अप्पत्तियं न कायव्वं । इअ संजमोवि सेओ, एत्थ य भयवं उदाहरणं ॥ सो तावसासमाओ, तेसि अप्पत्तिअं मुणेऊणं । परं अबोहिबीअं तओ गओ हंत कालेवि ॥