________________
२२६
श्राद्धविधिकौमुदीसङ्क्षेपः
बहुवैरापवादानां, सदैवोत्पन्नभक्षिणाम् । आलस्याऽऽहतचित्तानां, न देया कन्यका बुधैः ॥ गोत्रिणां द्यूतचौर्यादिव्यसनोपहतात्मनाम् । वैदेशिनामपि प्रायो, न देया कन्यका बुधैः ॥ निर्व्याजा दयितादौ भक्ता श्वश्रूषु वत्सला स्वजने । स्निग्धा च बन्धुवर्गे, विकसितवदना कुलवधूटी ॥
यस्य पुत्रा वशे भक्ता, भार्या छन्दानुवर्तिनी । विभवेष्वपि सन्तोषस्तस्य स्वर्ग इहैव हि ॥
अग्निदेवादिसाक्षिकं पाणिग्रहणं विवाहः । स च लोकेऽष्टविधः । तत्रालङ्कृत्य कन्यादानं ब्राहम्यो विवाहः | १ | विभवविंनियोगेन कन्यादानं प्राजापत्यः २। गोमिथुनदानपूर्वकमार्ष: ३ । यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा सदैव : ४ । एते धर्म्या विवाहाश्चत्वारः । मातुः पितुर्बन्धूनां चाप्रामाण्यात्परस्परानुरागेण मिथः समवायाद् गान्धर्व: ५। पणबन्धेन कन्याप्रदानमासुरः ६ । प्रसह्य कन्याग्रहणाद्राक्षसः ७। सुप्तप्रमत्तकन्याग्रहणात् पैशाचः ८ । एते चत्वारोऽप्यधर्म्याः यदि वधूवरयोः परस्परं रुचिरस्ति तदा अधर्म्या अपि धर्म्याः । शुद्धकलत्रलाभफलो. विवाहः, तत्फलं च वधूरक्षणमाचरतः सुजातसुतसन्ततिरनुपहतचित्तनिर्वृतिर्गृहकृत्यसुविहितत्वमाभिजात्याचारविशुद्धत्वं देवांऽतिथिबान्धवसत्काराऽनवद्यत्वं चेति । वधूरक्षणोपायास्त्वेते, गृहकर्मविनियोगः, परिमितोऽर्थसंयोगोऽस्वातन्त्र्यं सदा च मातृतुल्यस्त्रीलोकाऽवसेधनमित्यादि । एतच्च पत्नीविषयौचित्ये प्राग् विवृतम् । विवाहादौ च व्ययोत्सवादि स्वकुलविभवलोकाद्यौचित्येन यावत्कृतं विलोक्यते तावदेव कुर्यान् न त्वधिकाधिकं, अधिकव्ययादेः पुण्यकार्येष्वेवोचितत्वात् । एवमन्यत्रापि ज्ञेयम् । विवाहव्ययाद्यनुसारेण च सादरं स्नात्रमह-महापूजा-रसवतीढौकन- चतुर्विधसङ्घसत्काराद्यपि सत्या-पयेद् भवहेतुविवाहादेरप्येवं पुण्यैः सफलीभवनात् । द्वारम् |३|