SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २२५ षष्ठः प्रकाशः अट्टमर्टेपि सिक्खिज्जा, सिक्खिअं न निरत्थअं। अट्टमट्टपसाएण, खज्जए गुलतुंबयं ॥ शिक्षितसकलकलस्य हि प्रागुक्तसप्तविधाऽऽजीविकोपायानामन्यतरेणाप्युपायेन सुखनिर्वाहसमृद्धत्वादि स्यात् । सर्वाः कलाः शिक्षितुमशक्तस्त्वत्र सुखनिर्वाहादेः प्रेत्य सद्गतेश्च हेतुं कलां शिक्षेतैव । यतः . सुअसायरो अपारो, आउं थोवं जिआ य दुम्मेहा । तं किंपि सिक्खिअव्वं, जं कज्जकरं च थोवं च ॥ जाएण जीवलोए, दो चेव नरेण सिक्खिअव्वाइं । कम्मेण जेण जीवइ, जेण मओ सग्गइं जाइ ॥ निन्द्यपापमयक़र्मणा निर्वाहकरणं तु सूत्रे 'उचिअं' इत्युक्तेरनौचित्यादेव निषिद्धम् । द्वारम् २। ___ तथा पाणिग्रहणं विवाह: तदपि त्रिवर्गसिद्धिहेतुतयोचितमेव युक्तम् । तच्चान्यगोत्रजैः समानकुलसदाचारादिशीलरूपवयोविद्याविभववेषभाषाप्रतिष्ठादिगुणैरेव. सार्द्धम् । कुलशीलादिवैषम्ये हि 'मिथोऽवहीलनाकुटुम्बकलह-कलङ्काद्यापत्तिः । कुलशीलादिसाम्ये तु साधुपेथडप्रथमिणिदेव्यादीनामिव सर्वाङ्गीणसुखधर्ममहत्त्वादयो गुणाः । सामुद्रिकशास्त्राद्युक्तवपुर्लक्षणजन्मपत्रिकाऽन्वेषणादिना च कन्यावरयोः . परीक्षा । तदुक्तं कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च । ..' वरे गुणाः सप्त विलोकनीयास्ततः परं भाग्यवशा हि कन्या ॥ मूर्खनिर्धनदूरस्थशूरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणां, न देया कन्यका बुधैः ॥ अत्यद्भुतधनाढ्यानामतिशीतातिरोषिणाम् । . विकलाङ्गसरोगाणां, चापि देया न कन्यका ॥ कुलजातिविहीनानां पितृमातृवियोगिनाम् । गेहिनीपुत्रयुक्तानां, न देया कन्यका बुधैः ॥
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy