________________
२२४
श्राद्धविधिकौमुदीसक्षेपः शास्त्रेऽप्युक्तम्
न दोषो यत्र वेधादिर्नवं यत्राखिलं दलम् । . बहुद्वाराणि नो यत्र, यत्र धान्यस्य सङ्ग्रहः ॥ पूज्यते देवता यत्र, यत्राभ्युक्षणमादरात् । रक्ता जवनिका यत्र, यत्र सम्मार्जनादिकम् ॥ यत्र ज्येष्ठकनिष्टादिव्यवस्था सुप्रतिष्ठिता। . भानवीया विशन्त्यन्त नवो नैव यत्र च ॥ दीप्यते दीपको यत्र, पालनं यत्र रोगिणाम् ।।
श्रान्तसंवाहना यत्र, तत्र स्यात्कमला गृहे ॥ एवं देशकालस्वविभवजात्याद्यौचित्येन निर्मापितं गृहं विधिस्नात्रसाधर्मिकवात्सल्यसङ्घपूजादिपूर्वं व्यापारयेत्. । सुमुहूर्तशकुनादिबलं च गृहनिष्पत्तिप्रवेशादौ प्रतिपदमन्वेष्यम् । एवं विधिनिष्पन्ने गृहे श्रीवृद्ध्यादि न दुर्लभम् । एवं गृहवद् हट्टमपि सुप्रातिवेश्मिकेऽनतिप्रकटेऽनतिगुप्ते च सुस्थाने विधिनिष्पन्नं मितद्वारत्वादिगुणं त्रिवर्गसिद्धिहेतुतयोचितं मन्तव्यम् । द्वारम् १। ___ तथा त्रिवर्गसिद्धेः कारणमित्युत्तरत्राऽप्यनुवर्तनात् त्रिवर्गसिद्धिकारितया यदुचितं तद्विद्यानां लिखितपठितवाणिज्यधर्मादिकलानां ग्रहणम् अध्ययनं कार्यं सम्यक् । अशिक्षिताऽनभ्यस्तकलो हि मूर्खत्वहास्यत्वादिना पदे पदे पराभूयते, यथा कालिदासकविः प्राग्गोपो भूपसमे स्वस्तिस्थाने 'उशरट' इत्युक्तौ ग्रन्थशोधनचित्रसभादर्शनादौ च । कलावांश्च विदेशेऽपि मान्यते वसुदेवादिवत् । वदन्त्यपि
विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥ कलाश्च सर्वाः शिक्षणीयाः । क्षेत्रकालादिविशेषेण सर्वासामपि विशेषोपयोगसम्भवाद्, अन्यथा जातु सीदत्यपि । तदाह