________________
षष्ठः प्रकाशः
२२३
खजूरी दाडिमी रम्भा कर्कन्धू/जपूरिका । उत्पद्यते गृहे यत्र, तन्निकृन्तति मूलतः ॥ लक्ष्मीनाशकरः क्षीरी, कण्टकी शत्रुभीप्रदः । अपत्यनः फली तस्मादेषां काष्ठमपि त्यजेत् ॥ कश्चिदूचे पुरो भागे, वट: श्लाघ्य उदुम्बरः । दक्षिणे पश्चिमेऽश्वत्थो, भागे प्लक्षस्तथोत्तरे ॥ पूर्वस्यां श्रीगृहं कार्यमाग्नेय्यां च महानसम् । शयनं दक्षिणस्यां तु, नैर्ऋत्यामायुधादिकम् ॥ भुजिक्रिया पश्चिमायां, वायव्यां धान्यसङ्ग्रहः । उत्तरस्यां जलस्थानमैशान्यां देवतागृहम् ॥ गृहस्य दक्षिणे वह्नितोयगोऽनिलदीपभूः । वामा प्रत्यग्दिशोर्भुक्तिधान्यार्थारोहदेवभूः ॥ पूर्वादिदिग्विनिर्देशो, गृहद्वारव्यपेक्षया ।
भास्करोदयदिक्पूर्वा, न विज्ञेया यथा क्षुते ॥ इत्यादि। ___ तथा गृहनिष्पादसूत्रधारकर्मकरादयः प्रोक्तसम्यग्मूल्याद्यधिकोचितार्पणेन प्राणनीया न तु क्वचिद्वञ्चनीयाः । यावता च कुटुम्बादेः सुखनिर्वाहो. जने च शोभादि स्यात्, तावानेव बिस्तारो गृहे क्रियते । असन्तुष्टतयाऽधिकाधिकविस्तारकरणे मुधा धनव्ययारम्भादि । ईदृगपि गृहं. मितद्वारमेवारीम् । बहुद्वारत्वे ह्यज्ञातनिर्गमप्रवेशानां दुष्टलोकानामापाते स्त्रीद्रविणादिविप्लवोऽपि स्यात् । मितद्वारमपि दृढकपाटोल्लालकशृङ्खलिकाऽर्गलादिना सुरक्षितम्, अन्यथाऽनन्तरोक्ताद्यनेकदोषापत्तेः । कपाटाद्यपि सुखप्रदानोद्घाटं यथाविलोक्यमानस्थितिकं च गुणाय, अन्यथाधिकाधिकविराधनाविलोक्यमानशीघ्रनिर्गमागमादिकार्यहान्यादि च स्यात् । अर्गला च भित्तिमध्यस्थायिनी सर्वथा न युक्ता पञ्चेन्द्रियादिनामपि विराधनापत्तेः । ईदृक् कपाटप्रदानाद्यपि प्रत्युपेक्षणादियतनयैव कुर्यात्। एवं प्रणालखालादावपि यथाशक्ति यतनीयम् । मितद्वारत्वादि